Loading...
अथर्ववेद > काण्ड 20 > सूक्त 16

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 16/ मन्त्र 10
    सूक्त - अयास्यः देवता - बृहस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१६

    हि॒मेव॑ प॒र्णा मु॑षि॒ता वना॑नि॒ बृह॒स्पति॑नाकृपयद्व॒लो गाः। अ॑नानुकृ॒त्यम॑पु॒नश्च॑कार॒ यात्सूर्या॒मासा॑ मि॒थ उ॒च्चरा॑तः ॥

    स्वर सहित पद पाठ

    हि॒माऽइ॑व । प॒र्णा । मु॒षि॒ता । वना॑नि । बृह॒स्पति॑ना । अ॒कृ॒प॒य॒त् । व॒ल: । गा: ॥ अ॒न॒नु॒ऽकृ॒त्यम् । अ॒पु॒नरिति॑ । च॒का॒र॒ । यात् । सूर्या॒मासा॑ । मि॒थ: । उ॒त्ऽचरा॑त: ॥१६.१०॥


    स्वर रहित मन्त्र

    हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद्वलो गाः। अनानुकृत्यमपुनश्चकार यात्सूर्यामासा मिथ उच्चरातः ॥

    स्वर रहित पद पाठ

    हिमाऽइव । पर्णा । मुषिता । वनानि । बृहस्पतिना । अकृपयत् । वल: । गा: ॥ अननुऽकृत्यम् । अपुनरिति । चकार । यात् । सूर्यामासा । मिथ: । उत्ऽचरात: ॥१६.१०॥

    अथर्ववेद - काण्ड » 20; सूक्त » 16; मन्त्र » 10

    टिप्पणीः - १०−(हिमा) हिमेन। महाशीतेन (इव) यथा (पर्णा) पर्णानि। वृक्षपत्राणि (मुषिता) मुषितानि। नाशितानि (वनानि) वृक्षाः (बृहस्पतिना) महाविदुषः पुरुषस्य कारणेन (अकृपयत्) कृप चिन्तने-लङ्। अचिन्तयत्। कल्पितवान् (वलः) हिंसको दुष्टः (गाः) वेदवाणीः (अननुकृत्यम्) सांहितिको दीर्घः। अननुकरणीयम्। अन्यैः कर्तुम् अशक्यम् (अपुनः) प्राततेररन्। उ० ।९। पन स्तुतौ-अरन्, अस्य उत्वम्। नास्ति पुनः स्तुत्यं यस्मात् तत्। अत्यन्तस्तुत्यं कर्म (चकार) कृतवान् (यात्) छान्दसो दीर्घः। यत्। यथा (सूर्यामासा) माङ् माने असुन्। मस्यते परिमीयते स्वकलावृद्धिहानिभ्यामिति माश्चन्द्रमाः। (मिथः) परस्परम् (उच्चरातः) उत्तमतया चरतः, गच्छतः ॥

    इस भाष्य को एडिट करें
    Top