Loading...
अथर्ववेद > काण्ड 20 > सूक्त 16

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 16/ मन्त्र 3
    सूक्त - अयास्यः देवता - बृहस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१६

    सा॑ध्व॒र्या अ॑ति॒थिनी॑रिषि॒रा स्पा॒र्हाः सु॒वर्णा॑ अनव॒द्यरू॑पाः। बृह॒स्पतिः॒ पर्व॑तेभ्यो वि॒तूर्या॒ निर्गा ऊ॑पे॒ यव॑मिव स्थि॒विभ्यः॑ ॥

    स्वर सहित पद पाठ

    सा॒धु॒ऽअ॒र्या: । अ॒ति॒थिनी॑: । इ॒षि॒रा: । स्पा॒र्हा: । सु॒ऽवर्णा॑: । अ॒न॒व॒द्यऽरू॑पा: ॥ बृह॒स्पति॑: । पर्व॑तेभ्य: । वि॒ऽतूर्य॑ । नि: । गा: । ऊ॒पे॒ । यव॑म्ऽइव । स्थि॒विऽभ्य॑: ॥१६.३॥


    स्वर रहित मन्त्र

    साध्वर्या अतिथिनीरिषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः। बृहस्पतिः पर्वतेभ्यो वितूर्या निर्गा ऊपे यवमिव स्थिविभ्यः ॥

    स्वर रहित पद पाठ

    साधुऽअर्या: । अतिथिनी: । इषिरा: । स्पार्हा: । सुऽवर्णा: । अनवद्यऽरूपा: ॥ बृहस्पति: । पर्वतेभ्य: । विऽतूर्य । नि: । गा: । ऊपे । यवम्ऽइव । स्थिविऽभ्य: ॥१६.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 16; मन्त्र » 3

    टिप्पणीः - ३−(साध्वर्याः) साधुभिः सज्जनैः प्राप्तव्याः (अतिथिनीः) अतिथि+णीञ् प्रापणे-क्विप्। अतिथीनां प्रापयित्रीः (इषिराः) वेगशीलाः (स्पार्हाः) तस्येदम्। पा० ४।३।१२०। स्पृहा-अण्। स्पृहणीयाः। कमनीयाः (सुवर्णाः) सुष्ठु वरणीयाः (अनवद्यरूपाः) अनिन्दितस्वभावाः (बृहस्पतिः) (पर्वतेभ्यः) शैलतुल्यदृढस्वभावानां हिताय (वितूर्व) वि+तुर त्वरणे-ल्यप्। विविधवेगं कृत्वा (निः) निश्चयेन (ऊपे) डुवप बीजसन्ताने-लिट्। विस्तारितवान् (यवम्) अन्नम् (इव) यथा (स्थिविभ्यः) स्थवयः शूकुलाः, तान् भर्तं पूरयितुम् ॥

    इस भाष्य को एडिट करें
    Top