Loading...
अथर्ववेद > काण्ड 20 > सूक्त 16

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 16/ मन्त्र 12
    सूक्त - अयास्यः देवता - बृहस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१६

    इ॒दम॑कर्म॒ नमो॑ अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति। बृह॒स्पतिः॒ स हि गोभिः॒ सो अश्वैः॒ स वी॒रेभिः॒ स नृभि॑र्नो॒ वयो॑ धात् ॥

    स्वर सहित पद पाठ

    इ॒दम् । अ॒क॒र्म॒ । नम॑: । अ॒भ्रि॒याय॑ । य: । पूर्वी॑: । अनु॑ । आ॒ऽनोन॑वीति ॥ बृह॒स्पति॑: । स: । हि । गोभि॑: । स: । अश्वै॑: । स: । वी॒रेभि॑: । स: । नृऽभि॑: । न॒: । वय॑: । धा॒त् ।१६.१२॥


    स्वर रहित मन्त्र

    इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति। बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर्नो वयो धात् ॥

    स्वर रहित पद पाठ

    इदम् । अकर्म । नम: । अभ्रियाय । य: । पूर्वी: । अनु । आऽनोनवीति ॥ बृहस्पति: । स: । हि । गोभि: । स: । अश्वै: । स: । वीरेभि: । स: । नृऽभि: । न: । वय: । धात् ।१६.१२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 16; मन्त्र » 12

    टिप्पणीः - १२−(इदम्) (अकर्म) अकार्ष्म। वयं कृतवन्तः (अभ्रियाय) नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। पा० ३।१।१३। अभ्र गतौ-पचाद्यच्। अभ्रं मेघः-निघ० १।१०। समुद्राभ्राद् घः। पा० ४।४।११८। अभ्र-घप्रत्ययो भवार्थे। अभ्रे गतौ भवाय वर्तमानाय। पुरुषार्थिने (यः) विद्वान् (पूर्वीः) आद्या वेदवाणीः (अनु) निरन्तरम् (आनोनवीति) णु स्तुतौ यङ्लुकि। समन्ताद् अत्यर्थं नौति स्तौति (बृहस्पतिः) बृहत्या वेदवाण्या रक्षको महाविद्वान् (सः) (हि) एव (गोभिः) धेनुभिः (सः) (अश्वैः) तुरङ्गैः (सः) (वीरेभिः) वीरैः (सः) (नृभिः) नेतृभिः (नः) अस्मभ्यम् (वयः) वि गतिव्याप्तिप्रजनकान्त्यसनखादनेषु, यद्वा वय गतौ असुन्। अन्नम्-निघ० २।७ (धात्) दध्यात् ॥

    इस भाष्य को एडिट करें
    Top