Loading...
अथर्ववेद > काण्ड 20 > सूक्त 16

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 16/ मन्त्र 2
    सूक्त - अयास्यः देवता - बृहस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१६

    सं गोभि॑रङ्गिर॒सो नक्ष॑माणो॒ भग॑ इ॒वेद॑र्य॒मणं॑ निनाय। जने॑ मि॒त्रो न दम्प॑ती अनक्ति॒ बृह॑स्पते वा॒जया॒शूँरि॑वा॒जौ ॥

    स्वर सहित पद पाठ

    सम् । गोभि॑: । आ॒ङ्गि॒र॒स: । नक्ष॑माण: । भग॑:ऽइव । इत् । अ॒र्य॒मण॑म् । नि॒ना॒य॒ ॥ जने॑ । मि॒त्र: । न । दम्प॑ती॒ इति॒ दम्ऽप॑ती । अ॒न॒क्ति॒ । बृह॑स्पते । वा॒जय॑ । आ॒शून्ऽइ॑व । आ॒जौ ॥१६.२॥


    स्वर रहित मन्त्र

    सं गोभिरङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय। जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूँरिवाजौ ॥

    स्वर रहित पद पाठ

    सम् । गोभि: । आङ्गिरस: । नक्षमाण: । भग:ऽइव । इत् । अर्यमणम् । निनाय ॥ जने । मित्र: । न । दम्पती इति दम्ऽपती । अनक्ति । बृहस्पते । वाजय । आशून्ऽइव । आजौ ॥१६.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 16; मन्त्र » 2

    टिप्पणीः - २−(सम्) सम्यक् (गोभिः) वाग्भिः (आङ्गिरसः) अङ्गिरस्-अण्। अङ्गिरो विज्ञानं यस्यास्तीति स महाविद्वान् (नक्षमाणः) प्राप्नुवन् (भगः) ऐश्वर्यवान् (इव) यथा (इत्) एव (अर्यमणम्) अ० १।११।१। अर्य+माङ् माने-कनिन्। अर्याणां श्रेष्ठानां मानकर्तारम् (निनाय) आनीतवान् (जने) मनुष्यसमूहे (मित्रः) सुहृत् (न) इव (दम्पती) जायापती (अनक्ति) अञ्जू व्यक्त्यादिषु। शोभायमानौ करोति (बृहस्पते) हे बृहत्या वेदवाण्या रक्षक (वाजय) वेगयुक्तान् कुरु अस्मान् (आशून्) व्यापकान् अश्वान् (इव) यथा (आजौ) अज्यतिभ्यां च। उ० ४।१३१। अज गतिक्षेपणयोः-इण्। सङ्ग्रामे-निघ० २।१७ ॥

    इस भाष्य को एडिट करें
    Top