अथर्ववेद - काण्ड 20/ सूक्त 16/ मन्त्र 6
य॒दा व॒लस्य॒ पीय॑तो॒ जसुं॒ भेद्बृह॒स्पति॑रग्नि॒तपो॑भिर॒र्कैः। द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया॑णाम् ॥
स्वर सहित पद पाठय॒दा । व॒लस्य॑ । पीय॑त: । जसु॑म् । भेत् । बृह॒स्पति॑: । अ॒ग्नि॒तप॑:ऽभि: । अ॒र्कै: । द॒त्ऽभि: । न । जि॒ह्वा । परि॑ऽविष्टम् । आद॑त् । आ॒वि: । नि॒ऽधीन् । अ॒कृ॒णो॒त् । उ॒स्रिया॑णाम् ॥१६.६॥
स्वर रहित मन्त्र
यदा वलस्य पीयतो जसुं भेद्बृहस्पतिरग्नितपोभिरर्कैः। दद्भिर्न जिह्वा परिविष्टमाददाविर्निधीँरकृणोदुस्रियाणाम् ॥
स्वर रहित पद पाठयदा । वलस्य । पीयत: । जसुम् । भेत् । बृहस्पति: । अग्नितप:ऽभि: । अर्कै: । दत्ऽभि: । न । जिह्वा । परिऽविष्टम् । आदत् । आवि: । निऽधीन् । अकृणोत् । उस्रियाणाम् ॥१६.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 16; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(यदा) यस्मिन् काले (वलस्य) दुष्टस्य। दैत्यस्य (पीयतः) हिंसकस्य (जसुम्) जसु ताडने हिंसायां च-उप्रत्ययः। आयुधम् (भेत्) अभेत्। अभिनत् (बृहस्पतिः) (अग्नितपोभिः) अग्निवत्तेजस्विभिः (अर्कैः) पूजनीयैः पण्डितैः सह (दद्भिः) दन्तशब्दस्य दद्भावः। दन्तः (न) यथा (जिह्वा) रसना (परिविष्टम्) विष्लृ व्याप्तौ-क्त। वेष्टितम्। परिगृहीतं भोजनम् (आदत्) अद भक्षणे-लङ्। अभक्षयत् (आविरकृणोत्) स्पष्टीकृतवान् (निधीन्) सुवर्णादिकोशान् (उस्रियाणाम्) स्फायितञ्चिवञ्चि०। उ० २।१३। वस निवासे-रक्, स्वार्थे घप्रत्ययः, टाप्। निवासशीलानां प्रजानाम् ॥
इस भाष्य को एडिट करें