Loading...
अथर्ववेद > काण्ड 20 > सूक्त 37

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 37/ मन्त्र 10
    सूक्त - वसिष्ठः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३७

    ए॒ते स्तोमा॑ न॒रां नृ॑तम॒ तुभ्य॑मस्म॒द्र्यञ्चो॒ दद॑तो म॒घानि॑। तेषा॑मिन्द्र वृत्र॒हत्ये॑ शि॒वो भूः॒ सखा॑ च॒ शूरो॑ऽवि॒ता च॑ नृ॒णाम् ॥

    स्वर सहित पद पाठ

    ए॒ते । स्तोमा॑: । न॒राम् । नृ॒ऽत॒म॒ । तुभ्य॑म् । अ॒स्म॒द्र्य॑ञ्च: । दद॑त: । म॒घानि॑ ॥ तेषा॑म् । इ॒न्द्र॒ । वृ॒त्र॒ऽहत्ये॑ । शि॒व: । भू: । सखा॑ । च॒ । शूर॑: । अ॒वि॒ता । च॒ । नृ॒णाम् ॥३७.१०॥


    स्वर रहित मन्त्र

    एते स्तोमा नरां नृतम तुभ्यमस्मद्र्यञ्चो ददतो मघानि। तेषामिन्द्र वृत्रहत्ये शिवो भूः सखा च शूरोऽविता च नृणाम् ॥

    स्वर रहित पद पाठ

    एते । स्तोमा: । नराम् । नृऽतम । तुभ्यम् । अस्मद्र्यञ्च: । ददत: । मघानि ॥ तेषाम् । इन्द्र । वृत्रऽहत्ये । शिव: । भू: । सखा । च । शूर: । अविता । च । नृणाम् ॥३७.१०॥

    अथर्ववेद - काण्ड » 20; सूक्त » 37; मन्त्र » 10

    टिप्पणीः - १०−(एते) (स्तोमाः) प्रशंसनीयाः पुरुषाः (नराम्) नॄ नये-विट्। नेतॄणां मध्ये (नृतम) नयतेर्डिच्च। उ०२।१००। णीञ् प्रापणे-ऋप्रत्ययो-डित्, तमप्। हे अतिशयेन नायक (तुभ्यम्) (अस्मद्र्यञ्चः) अस्मद्+अञ्चु गतिपूजनयोः-क्विन्। विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये। पा०६।३।९२। अस्मद्-शब्दस्य टेरद्रि। अस्मान् अञ्चन्तः प्राप्नुवन्तः (ददतः) प्रयच्छन्तः सन्ति (मघानि) धनानि (तेषाम्) हे परमैश्वर्यवन् राजन् (वृत्रहत्ये) वृत्राणां शत्रूणां हत्या हननं यस्मिंस्तस्मिन्, सङ्ग्रामे (शिवः) मङ्गलकारी (भूः) अभूः। भव (सखा) सुहृत् (च) (शूरः) निर्भयः (अविता) रक्षकः (सृ) (नृणाम्) नेतॄणाम् ॥

    इस भाष्य को एडिट करें
    Top