Loading...
अथर्ववेद > काण्ड 20 > सूक्त 37

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 37/ मन्त्र 8
    सूक्त - वसिष्ठः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३७

    प्रि॒यास॒ इत्ते॑ मघवन्न॒भिष्टौ॒ नरो॑ मदेम शर॒णे सखा॑यः। नि तु॒र्वशं॒ नि याद्वं॑ शिशीह्यतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥

    स्वर सहित पद पाठ

    प्रियास॑: । इत् । ते॒ । म॒घ॒ऽव॒न् । अ॒भिष्टौ॑ । नर॑: । म॒दे॒म॒ । श॒र॒णे । सखा॑य: ॥ नि । तु॒र्वश॑म् । नि । याद्व॑म् । शि॒शी॒हि॒ । अ॒त‍ि॒थि॒ऽग्वाय॑ । शंस्य॑म् । क॒रि॒ष्यन् ॥३७.८॥


    स्वर रहित मन्त्र

    प्रियास इत्ते मघवन्नभिष्टौ नरो मदेम शरणे सखायः। नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् ॥

    स्वर रहित पद पाठ

    प्रियास: । इत् । ते । मघऽवन् । अभिष्टौ । नर: । मदेम । शरणे । सखाय: ॥ नि । तुर्वशम् । नि । याद्वम् । शिशीहि । अत‍िथिऽग्वाय । शंस्यम् । करिष्यन् ॥३७.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 37; मन्त्र » 8

    टिप्पणीः - ८−(प्रियासः) प्रीताः (इत्) एव (ते) तव (मघवन्) महाधनिन् (अभिष्टौ) पररूपम्। अभित इष्टसिद्धौ (नरः) नेतारः (मदेम) आनन्देम (शरणे) शरणागतपालने कर्मणि (सखायः) सुहृदः सन्तः (नि) निश्चयेन (तुर्वशम्) तुर तूर त्वरणहिंसनयोः-क्विप्+वशिरण्योरुपसंख्यानम्। वा० पा०३।३।८। वश कान्तौ-अप्। तुरां हिंसकानां वशयितारम् (नि) नित्यम् (याद्वम्) इण्शिभ्यां वन्। उ०१।१२। यती प्रयत्ने वा यत ताडने-वन्, णित्, तस्य दः। यद्वो मनुष्यनाम-निघ०२।३। प्रयत्नवन्तं मनुष्यम् (शिशीहि) अ०।२।७। शो तनूकरणे-श्यनः श्लुः, लोट्। बहुलं छन्दसि। पा०७।४।७८। अभ्यासस्य इत्वम्। ई हल्यघोः। पा०६।४।११३। आत ईत्वम्। तीक्ष्णीकुरु (अतिथिग्वाय) अ०२०।२१।८। अतिथीनां विदुषां गमनाय (शंस्यम्) प्रशंसनीयं कर्म (करिष्यन्) कुर्वन् ॥

    इस भाष्य को एडिट करें
    Top