अथर्ववेद - काण्ड 20/ सूक्त 37/ मन्त्र 2
त्वं ह॒ त्यदि॑न्द्र॒ कुत्स॑मावः शुश्रूषमाणस्त॒न्वा सम॒र्ये। दासं॒ यच्छुष्णं॒ कुय॑वं॒ न्यस्मा॒ अर॑न्धय आर्जुने॒याय॒ शिक्ष॑न् ॥
स्वर सहित पद पाठत्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । कुत्स॑म् । आ॒व:॒ । शुश्रू॑षमाण: । त॒न्वा॑ । स॒ऽम॒र्ये ॥ दास॑म् । यत् । शुष्ण॑म् । कुय॑वम् । नि । अ॒स्मै॒ । अर॑न्धय: । आ॒र्जु॒ने॒याय॑ । शिक्ष॑न् ॥३७.२॥
स्वर रहित मन्त्र
त्वं ह त्यदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये। दासं यच्छुष्णं कुयवं न्यस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥
स्वर रहित पद पाठत्वम् । ह । त्यत् । इन्द्र । कुत्सम् । आव: । शुश्रूषमाण: । तन्वा । सऽमर्ये ॥ दासम् । यत् । शुष्णम् । कुयवम् । नि । अस्मै । अरन्धय: । आर्जुनेयाय । शिक्षन् ॥३७.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 37; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(त्वम्) (ह) निश्चयेन (त्यत्) तदा (इन्द्र) हे परमैश्वर्यवन् राजन् (कुत्सम्) अ०२०।२१।१०। संगतिशीलम्। ऋषिम्। कुत्सो वज्रनाम-निघ०२।२०। अर्शआद्यच्। वज्रधारिणम् (आवः) अरक्षः (शुश्रूषमाणः) श्रोतुमिच्छन्। सेवां कुर्वाणः (तन्वा) शरीरेण (समर्ये) मर्यो मनुष्यनाम-निघ०२।३। मनुष्यैर्युक्ते सङ्ग्रामे (दासम्) दसु उपक्षये-घञ्। नाशयितारम् (यत्) यदा (शुष्णम्) शोषकम् (कुयवम्) कु कुत्सिता नाशिता यवा अन्नानि येन तं शत्रुम् (नि) निरन्तरम् (अस्मै) (अरन्धयः) अ०१०।४।१०। वशीकृतवानसि (आर्जुनेयाय) अर्जेर्णिलुक् च। उ०३।८। अर्ज संचये-णिच्-उनन् णेश्च लुक्, गौरादित्वाद् ङीप्। स्त्रीभ्यो ढक्। पा०४।१।१२०। अर्जुनी-ढक्। अर्जयति विद्याः सा अर्जुनी। अर्जुन्या विदुष्याः पुत्राय (शिक्षन्) शिक्षां कुर्वन् ॥
इस भाष्य को एडिट करें