अथर्ववेद - काण्ड 20/ सूक्त 37/ मन्त्र 3
त्वं धृ॑ष्णो धृष॒ता वी॒तह॑व्यं॒ प्रावो॒ विश्वा॑भिरू॒तिभिः॑ सु॒दास॑म्। प्र पौरु॑कुत्सिं त्र॒सद॑स्युमावः॒ क्षेत्र॑साता वृत्र॒हत्ये॑षु पू॒रुम् ॥
स्वर सहित पद पाठत्वम् । धृ॒ष्णो॒ इति॑ । धृ॒ष॒ता । वी॒तऽह॑व्यम् । प्र । आ॒व॒: । विश्वा॑भि: । ऊ॒तिऽभि:॑ । सु॒ऽदास॑म् ॥ प्र । पौरु॑ऽकुत्सिम् । त्र॒सद॑स्युम् । आ॒व॒: । क्षेत्र॑ऽसा॒ता । वृ॒त्र॒ऽहत्ये॑षु । पू॒रुम् ॥३७.३॥
स्वर रहित मन्त्र
त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिरूतिभिः सुदासम्। प्र पौरुकुत्सिं त्रसदस्युमावः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥
स्वर रहित पद पाठत्वम् । धृष्णो इति । धृषता । वीतऽहव्यम् । प्र । आव: । विश्वाभि: । ऊतिऽभि: । सुऽदासम् ॥ प्र । पौरुऽकुत्सिम् । त्रसदस्युम् । आव: । क्षेत्रऽसाता । वृत्रऽहत्येषु । पूरुम् ॥३७.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 37; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(त्वम्) (धृष्णो) अ०१।१३।४। ञिधृषा प्रागल्भ्ये-क्नु। हे निर्भय (धृषता) अ०२०।३६।६। प्रागल्भ्येन (वीतहव्यम्) अ०६।१३७।१। प्राप्तप्राप्तव्यपदार्थम् (प्र) प्रकर्षेण (आवः) रक्षितवानसि (विश्वाभिः) सर्वाभिः (ऊतिभिः) रक्षाभिः (सुदासम्) बहुदातारम् (प्र) (पौरुकुत्सिम्) अत इञ्। पा०४।१।९। पुरुकुत्स-इञ्। पुरुकुत्सस्य बहुवज्रादिशस्त्रास्त्रविदः पुरुषस्य सन्तानम् (त्रसदस्युम्) त्रसी उद्वेगे-अच्। त्रसा उद्विग्ना भयभीता दस्यवः साहसिका यस्मात् तम् (आवः) अव तृप्तौ। तर्पितवानसि (क्षेत्रसाता) क्षेत्रसातौ। रणक्षेत्रविभागे (वृत्रहत्येषु) अ०२०।२१।६। शत्रुहननेषु सङ्ग्रामेषु (पूरुम्) पॄभिदिव्यधि०। उ०१।२३। पूरी आप्यायने कु। मनुष्यम्-निघ०२।३॥
इस भाष्य को एडिट करें