अथर्ववेद - काण्ड 20/ सूक्त 37/ मन्त्र 7
मा ते॑ अ॒स्यां स॑हसाव॒न्परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै। त्राय॑स्व नोऽवृ॒केभि॒र्वरू॑थै॒स्तव॑ प्रि॒यासः॑ सू॒रिषु॑ स्याम ॥
स्वर सहित पद पाठमा । ते॒ । अ॒स्याम् । स॒ह॒सा॒ऽव॒न् । परि॑ष्टौ । अ॒घाय॑ । भू॒म॒ । ह॒रि॒ऽव॒: । प॒रा॒ऽदौ ॥ त्राय॑स्व । न॒: । अ॒वृ॒केभि॑: । वरू॑थै: । तव॑ । प्रि॒यास॑: । सू॒रिषु॑ । स्या॒म॒ ॥३७.७॥
स्वर रहित मन्त्र
मा ते अस्यां सहसावन्परिष्टावघाय भूम हरिवः परादै। त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम ॥
स्वर रहित पद पाठमा । ते । अस्याम् । सहसाऽवन् । परिष्टौ । अघाय । भूम । हरिऽव: । पराऽदौ ॥ त्रायस्व । न: । अवृकेभि: । वरूथै: । तव । प्रियास: । सूरिषु । स्याम ॥३७.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 37; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(मा) निषेधे (ते) तव (अस्याम्) उपस्थितायाम् (सहसावन्) मध्ये तृतीयाविभक्तिश्छान्दसी। हे सहस्वन्। बहुबलयुक्त (परिष्टौ) शकन्ध्वादित्वात् पररूपम्। परित इष्टसिद्धौ (अघाय) पापकरणाय (भूम) भवेम (हरिवः) अ०२०।३१।। प्रशस्तमनुष्ययुक्त (परादै) प्रयै रोहिष्यै अव्यथिष्यै। पा०३।४।१०। परा+ददातेः-कै प्रत्ययस्तुमर्थे। परादानाय त्यागाय। त्यक्तव्याय-इति दयानन्दभाष्ये (त्रायस्व) पाहि (नः) अस्मान् (अवृकेभिः) अचोरैः (वरूथैः) वरैः। श्रेष्ठैः (तव) (प्रियासः) प्रीताः (सूरिषु) प्रेरकेषु नेतृषु (स्याम) भवेम ॥
इस भाष्य को एडिट करें