अथर्ववेद - काण्ड 20/ सूक्त 76/ मन्त्र 3
कस्ते॒ मद॑ इन्द्र॒ रन्त्यो॑ भू॒द्दुरो॒ गिरो॑ अ॒भ्युग्रो वि धा॑व। कद्वाहो॑ अ॒र्वागुप॑ मा मनी॒षा आ त्वा॑ शक्यामुप॒मम्राधो॒ अन्नैः॑ ॥
स्वर सहित पद पाठक । ते॒ । मद॑: । इ॒न्द्र॒ । रन्त्य॑: । भू॒त् । दुर॑: । गिर॑: । अ॒भि । उ॒ग्र: । वि । धा॒व॒ ॥ कत् । वाह॑: । अ॒र्वाक् । उप॑ । मा॒ । म॒नी॒षा । आ । त्वा॒ । श॒क्या॒म् । उ॒प॒ऽमम् । राध॑: । अन्नै॑: ॥७६.३॥
स्वर रहित मन्त्र
कस्ते मद इन्द्र रन्त्यो भूद्दुरो गिरो अभ्युग्रो वि धाव। कद्वाहो अर्वागुप मा मनीषा आ त्वा शक्यामुपमम्राधो अन्नैः ॥
स्वर रहित पद पाठक । ते । मद: । इन्द्र । रन्त्य: । भूत् । दुर: । गिर: । अभि । उग्र: । वि । धाव ॥ कत् । वाह: । अर्वाक् । उप । मा । मनीषा । आ । त्वा । शक्याम् । उपऽमम् । राध: । अन्नै: ॥७६.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 76; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(कः) (ते) तव (मदः) हर्षः (इन्द्र) महाप्रतापिन् राजन् (रन्त्यः) वसेस्तिः। उ० ४।१८०। रमु क्रीडायाम्-तिप्रत्ययः। हितार्थे यत्। रन्तये रमणाय हितः। रमयिता। प्रीतिकरः (भूत्) भवेत् (दुरः) अस्माकं द्वाराणि (गिरः) स्तुतीः (अभि) अभिगत्य। प्राप्य (उग्रः) तेजस्वी (वि) विविधम् (धाव) धावु गतिशुद्ध्योः। शीघ्रमागच्छ (कत्) कदा (वाहः) वाहकः। अश्वरथादिकः (अर्वाक्) अभिमुखः (उप) उपेत्य (मा) माम् (मनीषा) प्रज्ञया (आ) आगत्य। प्राप्य (त्वा) त्वाम् (शक्याम्) प्राप्तुं शक्नुयाम् (उपमम्) समीपस्थम् (राधः) धनम् (अन्नैः) अदनीयपदार्थैः ॥
इस भाष्य को एडिट करें