अथर्ववेद - काण्ड 20/ सूक्त 76/ मन्त्र 5
प्रेर॑य॒ सूरो॒ अर्थं॒ न पा॒रं ये अ॑स्य॒ कामं॑ जनि॒धा इ॑व॒ ग्मन्। गिर॑श्च॒ ये ते॑ तुविजात पू॒र्वीर्नर॑ इन्द्र प्रति॒शिक्ष॒न्त्यन्नैः॑ ॥
स्वर सहित पद पाठप्र । ई॒र॒य॒ । सूर॑: । अर्थ॑म् । न । पा॒रम् । ये । अ॒स्य॒ । काम॑म् । ज॒नि॒धा:ऽइ॑व । ग्मन् ॥ गिर॑: । च॒ । ये । ते॒ । तु॒वि॒जा॒त॒ । पू॒र्वी: । नर॑: । इ॒न्द्र॒ । प्र॒ति॒ऽशिक्ष॑न्ति । अन्नै॑: ॥७६.५॥
स्वर रहित मन्त्र
प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन्। गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्र प्रतिशिक्षन्त्यन्नैः ॥
स्वर रहित पद पाठप्र । ईरय । सूर: । अर्थम् । न । पारम् । ये । अस्य । कामम् । जनिधा:ऽइव । ग्मन् ॥ गिर: । च । ये । ते । तुविजात । पूर्वी: । नर: । इन्द्र । प्रतिऽशिक्षन्ति । अन्नै: ॥७६.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 76; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - −(प्र) प्रकर्षेण (ईरय) गमय (सूरः) सुसूधाञ्गृधिभ्यः क्रन्। उ० २।२४। षू प्रेरणे-क्रन्। सूर्यः (अर्थम्) उषिकुषिगर्तिभ्यस्थन्। उ० २।४। ऋ गतौ-थन्। अरणीयं प्रापणीयम् (न) यथा (पारम्) परतीरम् (ये) पुरुषाः (अस्य) त्वदीयस्य (कामम्) मनोरथम् (जनिधाः) अ० २।३०।। जनि+दधातेः-क्विप्। जनीनां वीरपुत्रजनयित्रीणां पत्नीनां धर्तारः (इव) यथा (ग्मन्) अगमन्। प्राप्नुवन्ति (गिरः) वाणीः। विद्याः (च) (ये) (ते) तुभ्यम् (तुविजात) बहुप्रसिद्ध (पूर्वीः) सनातनीः (नरः) नेतारः (इन्द्र) परमैश्वर्यवन् राजन् (प्रतिशिक्षन्ति) शिक्षतिर्दानकर्मा-निघ० ३।२०। प्रत्यक्षं ददति। समर्पयन्ति (अन्नैः) ॥
इस भाष्य को एडिट करें