अथर्ववेद - काण्ड 20/ सूक्त 76/ मन्त्र 4
कदु॑ द्यु॒म्नमि॑न्द्र॒ त्वाव॑तो॒ नॄन्कया॑ धि॒या क॑रसे॒ कन्न॒ आग॑न्। मि॒त्रो न स॒त्य उ॑रुगाय भृ॒त्या अन्ने॑ समस्य॒ यदस॑न्मनी॒षाः ॥
स्वर सहित पद पाठकत् । ऊं॒ इति॑ । द्यु॒म्नम् । इ॒न्द्र॒ । त्वाऽव॑त: । नॄन् । कया॑ । धि॒या। क॒र॒से॒ । कत् । न॒ । आ । अ॒र॒न् ॥ मि॒त्र: । न । स॒त्य: । उ॒रु॒ऽगा॒य॒ । भृ॒त्यै । अन्ने॑ । स॒म॒स्य॒ । यत् । अस॑न् । म॒नी॒षा ॥७६.४॥
स्वर रहित मन्त्र
कदु द्युम्नमिन्द्र त्वावतो नॄन्कया धिया करसे कन्न आगन्। मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यदसन्मनीषाः ॥
स्वर रहित पद पाठकत् । ऊं इति । द्युम्नम् । इन्द्र । त्वाऽवत: । नॄन् । कया । धिया। करसे । कत् । न । आ । अरन् ॥ मित्र: । न । सत्य: । उरुऽगाय । भृत्यै । अन्ने । समस्य । यत् । असन् । मनीषा ॥७६.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 76; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(कत्) कस्मै मनुष्याय (उ) एव (द्युम्नम्) अ० ६।३।३। द्योतमानं यशः (इन्द्र) परमैश्वर्यवन् राजन् (त्वावतः) त्वत्सदृशस्य (नॄन्) सप्तम्यर्थे द्वितीया। नेतृषु (कया) कीदृश्या (धिया) प्रज्ञया (करसे) करोतेर्लेट्। कर्तव्यं करिष्यसि (कत्) कथम् (नः) अस्मान् (आ अगन्) प्राप्तवानसि (मित्रः) सखा (न) यथा (सत्यः) सत्यशीलः (उरुगाय) अ० २।१२।१। बहुकीर्ते (भृत्यै) भरणाय। पोषणाय (अन्ने) (समस्य) सर्वस्य (यत्) यतः (असन्) लेट्। भवन्ति (मनीषाः) बुद्धयः ॥
इस भाष्य को एडिट करें