अथर्ववेद - काण्ड 20/ सूक्त 76/ मन्त्र 6
मात्रे॒ नु ते॒ सुमि॑ते इन्द्र पू॒र्वी द्यौर्म॒ज्मना॑ पृथि॒वी काव्ये॑न। वरा॑य ते घृ॒तव॑न्तः सु॒तासः॒ स्वाद्म॑न्भवन्तु पी॒तये॒ मधू॑नि ॥
स्वर सहित पद पाठमात्रे॒ इति॑ । नु । ते॒ । सुमि॑ते॒ इति॒सुऽमि॑ते । इ॒न्द्र॒ । पू॒र्वी इति॑ । द्यौ: । म॒ज्मना॑ । पृ॒थि॒वी । काव्ये॑न ॥ वरा॑य । ते॒ । घृ॒तऽव॑न्त: । सु॒तास॑: । स्वाद्म॑न् । भ॒व॒न्तु॒ । पी॒तये॑। मधू॑नि ॥७६.६॥
स्वर रहित मन्त्र
मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर्मज्मना पृथिवी काव्येन। वराय ते घृतवन्तः सुतासः स्वाद्मन्भवन्तु पीतये मधूनि ॥
स्वर रहित पद पाठमात्रे इति । नु । ते । सुमिते इतिसुऽमिते । इन्द्र । पूर्वी इति । द्यौ: । मज्मना । पृथिवी । काव्येन ॥ वराय । ते । घृतऽवन्त: । सुतास: । स्वाद्मन् । भवन्तु । पीतये। मधूनि ॥७६.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 76; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(मात्रे) हुयामाश्रुभसिभ्यस्त्रन्। उ० ४।१६८। माङ् माने-त्रन्। द्वे मानकर्त्र्यौ यत्नशक्ती (नु) निश्चयेन (ते) तव (सुमिते) सुपरिमिते (इन्द्र) परमैश्वर्यवन् राजन् (पूर्वी) सनातन्यौ (द्यौः) द्योतमानः सूर्यो यथा (मज्मना) अ० १३।१।१४। शोधकेन बलेन (पृथिवी) विस्तृता भूमिर्यथा (काव्येन) कविकर्मणा। बुद्धिमत्तया (वराय) इष्टफलप्राप्तये (ते) तव (घृतवन्तः) दीप्तिमन्तः (सुतासः) निष्पादितास्तत्त्वरसाः (स्वाद्मन्) सातिभ्यां मनिन्मनिणौ। उ० ४।१३। ष्वद स्वाद वा आस्वादने-मनिण्, विभक्तेर्लुक्। स्वाद्मनि। स्वादिष्ठानि (भवन्तु) (पीतये) पानाय। ग्रहणाय (मधूनि) निश्चितज्ञानानि ॥
इस भाष्य को एडिट करें