अथर्ववेद - काण्ड 20/ सूक्त 76/ मन्त्र 2
प्र ते॑ अ॒स्या उ॒षसः॒ प्राप॑रस्या नृ॒तौ स्या॑म॒ नृत॑मस्य नृ॒णाम्। अनु॑ त्रि॒शोकः॑ श॒तमाव॑ह॒न्नॄन्कुत्से॑न॒ रथो॒ यो अस॑त्सस॒वान् ॥
स्वर सहित पद पाठप्र । ते॒ । अ॒स्या: । उ॒षस॑: । प्र । अप॑रस्या: । नृ॒तौ । स्या॒म॒ । नृऽत॑मस्य । नृ॒णाम् ॥ अनु॑ । त्रि॒ऽशोक॑: । श॒तम् । आ । अ॒व॒ह॒त् । नॄन् । कुत्से॑न: । रथ॑: । य: । अस॑त् । स॒स॒ऽवान् ॥७६.२॥
स्वर रहित मन्त्र
प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम्। अनु त्रिशोकः शतमावहन्नॄन्कुत्सेन रथो यो असत्ससवान् ॥
स्वर रहित पद पाठप्र । ते । अस्या: । उषस: । प्र । अपरस्या: । नृतौ । स्याम । नृऽतमस्य । नृणाम् ॥ अनु । त्रिऽशोक: । शतम् । आ । अवहत् । नॄन् । कुत्सेन: । रथ: । य: । असत् । ससऽवान् ॥७६.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 76; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(प्र प्र) अतिशयेन प्रकृष्टाः (ते) तव (अस्याः) वर्तमानायाः (उषसः) प्रभातवेलायाः (अपरस्याः) अन्यस्याः। आगामिन्याः (नृतौ) इगुपधात् कित्। उ० ४।१२०। नृती गात्रविक्षेपे-इन्, कित्। नर्तने। चेष्टने (स्याम) भवेम (नृतमस्य) नेतृतमस्य (नृणाम्) नेतॄणां मध्ये (अनु) आनुकूल्येन (त्रिशोकः) ईशुचिर् क्लेदने शौचे च-घञ्। त्रयाणां सूर्यविद्युदग्नीनां शोकः प्रकाशो यस्मिन् सः (शतम्) (आ अवहत्) लिङर्थे लङ्। आवहेत् (नॄन्) नेतॄन् पुरुषान् (कुत्सेन) अ० ४।२९।। कुस संश्लेषणे-सप्रत्ययः। ऋषिः कुत्सो भवति कर्ता स्तोमानाम्-निरु० ३।११। संगतिशीलेन ऋषिणा सेनापतिना (रथः) यानभेदः (यः) रथः (असत्) भवेत् (ससवान्) षण संभक्तौ-क्वसु। सेवमानः ॥
इस भाष्य को एडिट करें