Loading...
अथर्ववेद > काण्ड 20 > सूक्त 76

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 76/ मन्त्र 8
    सूक्त - वसुक्रः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-७६

    व्या॑न॒डिन्द्रः॒ पृत॑नाः॒ स्वोजा॒ आस्मै॑ यतन्ते स॒ख्याय॑ पू॒र्वीः। आ स्मा॒ रथं॒ न पृत॑नासु तिष्ठ॒ यं भ॒द्रया॑ सुम॒त्या चो॒दया॑से ॥

    स्वर सहित पद पाठ

    वि । आ॒न॒ट् । इन्द्र॑: । पृत॑ना: । सु॒ऽओजा॑: । आ । अस्मै॑ । य॒त॒न्ते॒ । स॒ख्याय॑ । पू॒र्वी: ॥ आ । स्म॒ । रथ॑म् । न । पृत॑नासु । ति॒ष्ठ॒ । यम् । भ॒द्रया॑ । सु॒ऽम॒त्या । चो॒दया॑से ॥७६.८॥


    स्वर रहित मन्त्र

    व्यानडिन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः। आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे ॥

    स्वर रहित पद पाठ

    वि । आनट् । इन्द्र: । पृतना: । सुऽओजा: । आ । अस्मै । यतन्ते । सख्याय । पूर्वी: ॥ आ । स्म । रथम् । न । पृतनासु । तिष्ठ । यम् । भद्रया । सुऽमत्या । चोदयासे ॥७६.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 76; मन्त्र » 8

    टिप्पणीः - ८−(वि आनट्) व्याप्नोति (इन्द्रः) परमैश्वर्यवान् पुरुषः (पृतनाः) मनुष्यान्-निघ० २।३। (स्वोजाः) शोभनबलः (आ) समन्तात् (अस्मै) षष्ठ्यर्थे चतुर्थी। अस्य। इन्द्रस्य (यतन्ते) यत्नं कुर्वन्ति (सख्याय) सखित्वाय मित्रभावाय (पूर्वीः) समस्ता मनुष्यप्रजाः (स्म) अवश्यम् (रथम्) रथरूपं राज्यव्यवहारम् (न) सम्प्रति (पृतनासु) मनुष्येषु (आ तिष्ठ) आरोह (यम्) रथम् (भद्रया) कल्याण्या (सुमत्या) शोभनया बुद्ध्या (चोदयासे) लेटि रूपम्। चोदयेः। प्रेरयेः ॥

    इस भाष्य को एडिट करें
    Top