अथर्ववेद - काण्ड 20/ सूक्त 77/ मन्त्र 1
आ स॒त्यो या॑तु म॒घवाँ॑ ऋजी॒षी द्रव॑न्त्वस्य॒ हर॑य॒ उप॑ नः। तस्मा॒ इदन्धः॑ सुषुमा सु॒दक्ष॑मि॒हाभि॑पि॒त्वं क॑रते गृणा॒नः ॥
स्वर सहित पद पाठआ । स॒त्य: । या॒तु । म॒घऽवा॑न् । ऋ॒जी॒षी । द्रव॑न्तु । अ॒स्य॒ । हर॑य: । उप॑ । न॒: ॥ तस्मै॑ । इत् । अन्ध॑: । सु॒सु॒म॒ । सु॒ऽदक्ष॑म् । इ॒ह । अ॒भि॒ऽपि॒त्वम् । क॒र॒ते॒ । गृ॒णा॒न: ॥७७.१॥
स्वर रहित मन्त्र
आ सत्यो यातु मघवाँ ऋजीषी द्रवन्त्वस्य हरय उप नः। तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः ॥
स्वर रहित पद पाठआ । सत्य: । यातु । मघऽवान् । ऋजीषी । द्रवन्तु । अस्य । हरय: । उप । न: ॥ तस्मै । इत् । अन्ध: । सुसुम । सुऽदक्षम् । इह । अभिऽपित्वम् । करते । गृणान: ॥७७.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 77; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - यह सूक्त ऋग्वेद में है-४।१६।१-८ ॥ १−(आ यातु) आगच्छतु (सत्यः) सत्यवादी। सत्यकर्मी (मघवान्) धनवान् (ऋजीषी) अर्जेर्ऋज च। उ० ४।२८। अर्ज संचये-ईषन्, कित्, ऋजादेशः, यद्वा, ऋज गतिस्थानार्जनोपार्जनेषु ईषन्, कित्, ऋजीष-इनि। ऋजुस्वभावः। सरलस्वभावः (द्रवन्तु) गच्छन्तु (अस्य) राज्ञः (हरयः) मनुष्याः (उप) (नः) अस्मान् (तस्मै) राज्ञे (इत्) एव (अन्धः) अन्नम् (सुषुम) अ० २०।३।१। वयं निष्पादितवन्तः (सुदक्षम्) शोभनबलयुक्तम् (इह) (अभिपित्वम्) अ० २०।२।६। संगमम् (करते) कुर्यात् (गृणानः) उपदिशन् ॥
इस भाष्य को एडिट करें