अथर्ववेद - काण्ड 20/ सूक्त 77/ मन्त्र 2
अव॑ स्य शू॒राध्व॑नो॒ नान्ते॒ऽस्मिन्नो॑ अ॒द्य सव॑ने म॒न्दध्यै॑। शंसा॑त्यु॒क्थमु॒शने॑व वे॒धाश्चि॑कि॒तुषे॑ असु॒र्याय॒ मन्म॑ ॥
स्वर सहित पद पाठअव॑ । स्य॒ । शू॒र॒ । अध्व॑न: । न । अन्ते॑ । अ॒स्मिन् । न॒: । अ॒द्य । सव॑ने । म॒न्दध्यै॑ ॥ शंसा॑ति । उ॒क्थम् । उ॒शना॑ऽइव । वे॒धा: । चि॒कि॒तुषे॑ । अ॒सु॒र्या॑य । मन्म॑ ॥७७.२॥
स्वर रहित मन्त्र
अव स्य शूराध्वनो नान्तेऽस्मिन्नो अद्य सवने मन्दध्यै। शंसात्युक्थमुशनेव वेधाश्चिकितुषे असुर्याय मन्म ॥
स्वर रहित पद पाठअव । स्य । शूर । अध्वन: । न । अन्ते । अस्मिन् । न: । अद्य । सवने । मन्दध्यै ॥ शंसाति । उक्थम् । उशनाऽइव । वेधा: । चिकितुषे । असुर्याय । मन्म ॥७७.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 77; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अव स्य) षो अन्तकर्मणि-लोट्। विनाशय (शूर) हे निर्भय राजन् (अध्वनः) मार्गान् (न) निषेधे (अन्ते) समीपस्थे (अस्मिन्) (नः) अस्माकम् (अद्य) इदानीम् (सवने) ऐश्वर्ये (मन्दध्यै) तुमर्थे सेसेनसे-असेन्०। पा० ३।४।९। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु-अध्यैप्रत्ययः मन्दितुमानन्दितुम् (शंसाति) कथयेत् (उक्थम्) वक्तव्यं प्रशंसनीयं कर्म (उशनाः) अ० २०।२।। कमनीयः पुरुषः (इव) यथा (वेधाः) मेधावी (चिकितुषे) अ० ४।३०।२। कित ज्ञाने-क्वसु। ज्ञानिने (असुर्याय) अ० २०।८।४। प्राणिभ्यो हितकराय (मन्म) मननीयं ज्ञानम् ॥
इस भाष्य को एडिट करें