अथर्ववेद - काण्ड 20/ सूक्त 77/ मन्त्र 5
व॑व॒क्ष इन्द्रो॒ अमि॑तमृजि॒ष्युभे आ प॑प्रौ॒ रोद॑सी महि॒त्वा। अत॑श्चिदस्य महि॒मा वि रे॑च्य॒भि यो विश्वा॒ भुव॑ना ब॒भूव॑ ॥
स्वर सहित पद पाठव॒व॒क्षे । इन्द्र॑: । अमि॑तम् । ऋ॒जी॒षी । उ॒भे इति॑ । आ । प॒प्रौ॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा ॥ अत॑: । चि॒त् । अ॒स्य॒ । म॒हि॒मा । वि । रे॒चि॒:। अ॒भि । य: । विश्वा॑ । भुव॑ना । बभूव॑ ॥७७.५॥
स्वर रहित मन्त्र
ववक्ष इन्द्रो अमितमृजिष्युभे आ पप्रौ रोदसी महित्वा। अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव ॥
स्वर रहित पद पाठववक्षे । इन्द्र: । अमितम् । ऋजीषी । उभे इति । आ । पप्रौ । रोदसी इति । महिऽत्वा ॥ अत: । चित् । अस्य । महिमा । वि । रेचि:। अभि । य: । विश्वा । भुवना । बभूव ॥७७.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 77; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - −(ववक्षे) वहतेर्लिडर्थे लेट्। सिब्बहुलं लेटि। पा० ३।१।३४। इति सिप्। बहुलं छन्दसि। पा० २।४।७६। इति शपः श्लुः। ढत्वकत्वषत्वानि। लोपस्त आत्मनेपदेषु। पा० ७।१।४१। इति तलोपः। वहते गतिकर्मा-निघ० २।१४। उवाह। प्राप (इन्द्रः) परमैश्वर्ययुक्तो जगदीश्वरः (अमितम्) अपरिमितसामर्थ्यम् (ऋजीषी) म० १। सरलस्वभावः (उभे) द्वे (आ) समन्तात् (पप्रौ) पूरितवान् (रोदसी) सूर्यभूमी (महित्वा) महत्वेन (अतः) अस्मात् कारणात् (चित्) एव (महिमा) (अस्य) ईश्वरस्य (वि) विशेषेण (रेचि) अरेचि। अधिकोऽभवत् (अभि) अभीत्य। व्याप्य (यः) ईश्वरः (विश्वा) सर्वाणि (भुवना) भुवनानि (बभूव) ॥
इस भाष्य को एडिट करें