अथर्ववेद - काण्ड 20/ सूक्त 77/ मन्त्र 3
क॒विर्न नि॒ण्यं वि॒दथा॑नि॒ साध॒न्वृषा॒ यत्सेकं॑ विपिपा॒नो अर्चा॑त्। दि॒व इ॒त्था जी॑जनत्स॒प्त का॒रूनह्ना॑ चिच्चक्रुर्व॒युना॑ गृ॒णन्तः॑ ॥
स्वर सहित पद पाठक॒वि: । न । नि॒ण्यम् । वि॒दथा॑नि । साध॑न् । वृषा॑ । यत् । सेक॑म् । वि॒ऽपि॒पा॒न: । अर्चा॑त् ॥ दि॒व: । इ॒त्था । जी॒ज॒न॒त् । स॒प्त । का॒रून् । अह्ना॑ । चि॒त् । च॒क्रु॒ । वयुना॑ । गृ॒णन्त॑: ॥७७.३॥
स्वर रहित मन्त्र
कविर्न निण्यं विदथानि साधन्वृषा यत्सेकं विपिपानो अर्चात्। दिव इत्था जीजनत्सप्त कारूनह्ना चिच्चक्रुर्वयुना गृणन्तः ॥
स्वर रहित पद पाठकवि: । न । निण्यम् । विदथानि । साधन् । वृषा । यत् । सेकम् । विऽपिपान: । अर्चात् ॥ दिव: । इत्था । जीजनत् । सप्त । कारून् । अह्ना । चित् । चक्रु । वयुना । गृणन्त: ॥७७.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 77; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - मन्त्र में (कारु) पद ऋषि आदि वाचक है। यजुर्वेद ३०।। का वचन है (सप्त ऋषयः प्रतिहिताः शरीरे) शरीर में सात ऋषि रक्खे हुए हैं। [सप्त ऋषयः षडिन्द्रियाणि विद्या सप्तमी] सात ऋषि छह इन्द्रियाँ और सातवीं विद्या [बुद्धि] है-निरु० १२।३७। (यः सप्त खानि वि ततर्द शीर्षणि। कर्णाविमौ नासिके चक्षणी मुखम्) कर्ता ने [मनुष्य के] मस्तक में सात गोलक खोदे, यह दो कान, दोनों नथने, दोनों आँखें और एक मुख-अथ० १०।२।६ ॥ ३−(कविः) मेधावी (न) यथा (निण्यम्) अ० ९।१०।१। निर्+णीञ् प्रापणे-यक्, टिलोपो रेफलोपश्च। अन्तर्हितं गूढमर्थम् (विदथानि) ज्ञातव्यानि कर्माणि (साधन्) साधयन् (वृषा) सुखानां वर्षकः। बलिष्ठः (यत्) यः (सेकम्) सिञ्चनम्। वृद्धिप्रयत्नम् (विपिपानः) पा रक्षणे कानच्। विशेषे रक्षन् (अर्चात्) सत्कुर्यात् (दिवः) दिवु व्यवहारे-क्विप्। व्यवहारकुशलान् (इत्था) अनेन प्रकारेण (जीजनत्) लडर्थे लुङ्। अजीजनत्। जनयेत् (सप्त) सप्तसंख्यकान् (कारून्) कृवापा०। उ० १।१। करोतेः-उण्। कार्यकर्तॄन् सप्त ऋषीन्। अ० ४।११।९। सप्त होतॄन्। अ० ४।२४।३। (अह्ना) दिवसेन (चित्) यथा (चक्रुः) कृतवन्तः (वयुनानि) अ० २।२८।२। ज्ञातव्यानि कर्माणि (गृणन्तः) उपदिशन्तः ॥
इस भाष्य को एडिट करें