Loading...
अथर्ववेद > काण्ड 20 > सूक्त 77

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 77/ मन्त्र 8
    सूक्त - वामदेवः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-७७

    अ॒पो यदद्रिं॑ पुरुहूत॒ दर्द॑रा॒विर्भु॑वत्स॒रमा॑ पू॒र्व्यं ते॑। स नो॑ ने॒ता वाज॒मा द॑र्षि॒ भूरिं॑ गो॒त्रा रु॒जन्नङ्गि॑रोभिर्गृणा॒नः ॥

    स्वर सहित पद पाठ

    अ॒प: । यत् । अद्रि॑म् । पु॒रु॒ऽहू॒त॒ । दर्द॑: । आ॒वि: । भु॒व॒त् । स॒रमा॑ । पू॒र्व्यम् । ते॒ ॥ स: । न॒: । ने॒ता । वाज॑म् । आ । द॒र्षि॒ भूरिम् । गो॒त्रा । रु॒जन् । अङ्गि॑र:ऽभि: । गृ॒णा॒न: ॥७७.८॥


    स्वर रहित मन्त्र

    अपो यदद्रिं पुरुहूत दर्दराविर्भुवत्सरमा पूर्व्यं ते। स नो नेता वाजमा दर्षि भूरिं गोत्रा रुजन्नङ्गिरोभिर्गृणानः ॥

    स्वर रहित पद पाठ

    अप: । यत् । अद्रिम् । पुरुऽहूत । दर्द: । आवि: । भुवत् । सरमा । पूर्व्यम् । ते ॥ स: । न: । नेता । वाजम् । आ । दर्षि भूरिम् । गोत्रा । रुजन् । अङ्गिर:ऽभि: । गृणान: ॥७७.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 77; मन्त्र » 8

    टिप्पणीः - ८−(अपः) जलानि (यत्) यदा (अद्रिम्) अद्रिसकाशात् पर्वतात् (पुरुहूत) हे बहुभिराहूत (दर्दः) दॄ विदारणे-लुङ् लिङर्थे। विदारयेः (आविः) प्राकट्ये (भुवत्) अन्तर्गतण्यर्थः। भावयेत्। कुर्यात् (सरमा) अ० ९।४।१३। सृ गतौ-अमप्रत्ययः, टाप्। सरमा पदनाम-निघ० ।। सरणीया। प्राप्तव्या सरला नीतिः (पूर्व्यम्) पुराणं व्यवहारम् (ते) तव (सः) स त्वम् (नः) अस्माकम् (नेता) नायकः (वाजम्) बलम् (आ दर्षि) अ० २०।२।३। लोडर्थे लट्। आद्रियस्व (भूरिम्) प्रभूतम् (गोत्रा) गोत्रान्। शैलान् (रुजन्) भञ्जन् (अङ्गिरोभिः) विद्वद्भिः (गृणानः) उपदिशन् ॥

    इस भाष्य को एडिट करें
    Top