Loading...
अथर्ववेद > काण्ड 20 > सूक्त 77

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 77/ मन्त्र 7
    सूक्त - वामदेवः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-७७

    अ॒पो वृ॒त्रं व॑व्रि॒वांसं॒ परा॑ह॒न्प्राव॑त्ते॒ वज्रं॑ पृथि॒वी सचे॑ताः। प्रार्णां॑सि समु॒द्रिया॑ण्यैनोः॒ पति॒र्भव॒ञ्छव॑सा शूर धृष्णो ॥

    स्वर सहित पद पाठ

    अ॒प: । वृ॒त्रम् । प॒वि॒ऽवांस॑म् । परा॑ । अ॒ह॒न् । प्र । आ॒व॒त् । ते॒ । वज्र॑म् । पृ॒थि॒वी । सऽचे॑ता: ॥ प्र । अर्णा॑सि । स॒मु॒द्रिया॑णि । ऐ॒नो॒: । पति॑: । भव॑न् । शव॑सा । शू॒र॒ । धृ॒ष्णो॒ इति॑ ॥७७.७॥


    स्वर रहित मन्त्र

    अपो वृत्रं वव्रिवांसं पराहन्प्रावत्ते वज्रं पृथिवी सचेताः। प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवञ्छवसा शूर धृष्णो ॥

    स्वर रहित पद पाठ

    अप: । वृत्रम् । पविऽवांसम् । परा । अहन् । प्र । आवत् । ते । वज्रम् । पृथिवी । सऽचेता: ॥ प्र । अर्णासि । समुद्रियाणि । ऐनो: । पति: । भवन् । शवसा । शूर । धृष्णो इति ॥७७.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 77; मन्त्र » 7

    टिप्पणीः - ७−(अपः) कर्म-निघ० २।१। (वृत्रम्) अन्धकारम् (वव्रिवांसम्) वृणोतेः-क्वसु। आवरकम् (परा) दूरे (अहन्) मध्यमपुरुषस्य प्रथमः। अहः। नाशितवानसि (प्र) प्रकर्षेण (आवत्) अव रक्षणदानादिषु-लङ्। गृहीतवती (ते) तव (वज्रम्) दण्डम्। शासनम् (पृथिवी) (सचेतः) चेतनावती (प्र) प्रकर्षेण (अर्णांसि) गतिमन्ति जलानि (समुद्रियाणि) समुद्रार्हाणि (ऐनोः) इण् गतौ, अन्तर्गतण्यर्थः-लङ्, आडागमो वृद्धिश्च, छान्दसः श्नुः। अगमयः। प्रेरितवानसि (पतिः) स्वामी (भवन्) सन् (शवसा) बलेन (शूर) वीर (धृष्णो) दृढात्मन् ॥

    इस भाष्य को एडिट करें
    Top