Loading...
अथर्ववेद > काण्ड 20 > सूक्त 77

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 77/ मन्त्र 4
    सूक्त - वामदेवः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-७७

    स्वर्यद्वेदि॑ सु॒दृशी॑कम॒र्कैर्महि॒ ज्योती॑ रुरुचु॒र्यद्ध॒ वस्तोः॑। अ॒न्धा तमां॑सि॒ दुधि॑ता वि॒चक्षे॒ नृभ्य॑श्चकार॒ नृत॑मो अ॒भिष्टौ॑ ॥

    स्वर सहित पद पाठ

    स्व॑: । यत् । वेदि॑ । सु॒ऽदृशी॑कम् । अ॒र्कै: । महि॑ । ज्योति॑: । रु॒रु॒चु॒: । यत् । ह॒ । वस्तो॑: ॥ अ॒न्धा । तमां॑सि । दुधि॑ता । वि॒ऽचक्षे॑ । नृऽभ्य॑: । च॒का॒र॒ । नृऽत॑म: । अ॒भिष्टौ॑ ॥७७.४॥


    स्वर रहित मन्त्र

    स्वर्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः। अन्धा तमांसि दुधिता विचक्षे नृभ्यश्चकार नृतमो अभिष्टौ ॥

    स्वर रहित पद पाठ

    स्व: । यत् । वेदि । सुऽदृशीकम् । अर्कै: । महि । ज्योति: । रुरुचु: । यत् । ह । वस्तो: ॥ अन्धा । तमांसि । दुधिता । विऽचक्षे । नृऽभ्य: । चकार । नृऽतम: । अभिष्टौ ॥७७.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 77; मन्त्र » 4

    टिप्पणीः - ४−(स्वः) सुखम् (यत्) (वेदि) अवेदि। ज्ञानम् (सुदृशीकम्) मृडः कीकच्कङ्कणौ। उ०।२४। दृशेः-कीकच्। सुष्ठु दर्शनीयम् (अर्कैः) पूजनीयविचारैः (महि) महत् (ज्योतिः) प्रकाशमयं (रुरुचुः) दीप्तियुक्ता बभूवुः ते विद्वांसः (यत्) येन सुखेन (ह) निश्चयेन (वस्तोः) दिनम्। दिनप्रकाशो यथा (अन्धा) अन्धानि। निबिडानि (तमांसि) अन्धकारान् (दुधिता) दुहिर् अर्दने-क्त, हस्य ध। दुहितानि। नाशितानि (विचक्षे) चक्षिण् व्यक्तायां वाचि दर्शने च-क्विप्। विशेषेण दर्शनाय (नृभ्यः) नेतृभ्यः (चकार) कृतवान् (नृतमः) अतिशयेन नेता (अभिष्टौ) यजेः क्तिन्। सर्वतः संगतौ ॥

    इस भाष्य को एडिट करें
    Top