Loading...
अथर्ववेद > काण्ड 20 > सूक्त 89

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 89/ मन्त्र 6
    सूक्त - कृष्णः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-८९

    यस्मि॑न्व॒यं द॑धि॒मा शंस॒मिन्द्रे॒ यः शि॒श्राय॑ म॒घवा॒ काम॑म॒स्मे। आ॒राच्चि॒त्सन्भ॑यतामस्य॒ शत्रु॒र्न्यस्मै द्यु॒म्ना जन्या॑ नमन्ताम् ॥

    स्वर सहित पद पाठ

    यस्मि॑न् । व॒यम् । द॒धि॒म । शंस॑म् । इन्द्रे॑ । य: । शि॒श्राय॑ । म॒घऽवा॑ । काम॑म् । अ॒स्मै इति॑ ॥ आ॒रात् । चि॒त् । सन् । भ॒य॒ता॒म् । अ॒स्य॒ । शत्रु॑: । नि । अ॒स्मै॒ । द्यु॒म्ना । जन्या॑ । न॒म॒न्ता॒म् ॥८९.६॥


    स्वर रहित मन्त्र

    यस्मिन्वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे। आराच्चित्सन्भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम् ॥

    स्वर रहित पद पाठ

    यस्मिन् । वयम् । दधिम । शंसम् । इन्द्रे । य: । शिश्राय । मघऽवा । कामम् । अस्मै इति ॥ आरात् । चित् । सन् । भयताम् । अस्य । शत्रु: । नि । अस्मै । द्युम्ना । जन्या । नमन्ताम् ॥८९.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 89; मन्त्र » 6

    टिप्पणीः - ६−(यस्मिन्) (वयम्) प्रजागणाः (दधिम) धृतवन्तः (शंसम्) शसि इच्छायाम्-घञ्। आशंसाम्। आकाङ्क्षाम् (इन्द्रे) परप्रतापिनि वीरे (यः) (शिश्राय) आश्रितवान्। स्थापितवान् (मघवा) धनवान् (कामम्) अभिलाषम् (अस्मे) अस्मासु (आरात्) दूरे (चित्) अपि (सन्) भवन् (भयताम्) बिभेतु। भयं प्राप्नोतु (अस्य) वीरस्य (शत्रुः) (नि) नितराम् (अस्मै) वीराय (द्युम्ना) द्योतमानानि यशांसि (जन्या) जनहितानि (नमन्ताम्) प्रह्वीभवन्तु ॥

    इस भाष्य को एडिट करें
    Top