अथर्ववेद - काण्ड 20/ सूक्त 89/ मन्त्र 3
किम॒ङ्ग त्वा॑ मघवन्भो॒जमा॑हुः शिशी॒हि मा॑ शिश॒यं त्वा॑ शृणोमि। अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मि॒न्द्रा भ॑रा नः ॥
स्वर सहित पद पाठकिम् । अ॒ङ्ग । त्वा॒ । म॒घ॒ऽव॒न् । भो॒जम् । आ॒हु॒: । शि॒शी॒हि । मा॒ । शि॒श॒यम् । त्वा॒ । शृ॒णो॒मि॒ ॥ अप्न॑स्वती । मम॑ ।धी: । अ॒स्तु॒ । श॒क्र॒ । व॒सु॒ऽविद॑म् । भग॑म् । इ॒न्द्र॒ । आ । भ॒र॒ । न॒: ॥८९.३॥
स्वर रहित मन्त्र
किमङ्ग त्वा मघवन्भोजमाहुः शिशीहि मा शिशयं त्वा शृणोमि। अप्नस्वती मम धीरस्तु शक्र वसुविदं भगमिन्द्रा भरा नः ॥
स्वर रहित पद पाठकिम् । अङ्ग । त्वा । मघऽवन् । भोजम् । आहु: । शिशीहि । मा । शिशयम् । त्वा । शृणोमि ॥ अप्नस्वती । मम ।धी: । अस्तु । शक्र । वसुऽविदम् । भगम् । इन्द्र । आ । भर । न: ॥८९.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 89; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(किम्) किमर्थम् (अङ्ग) सम्बोधने (त्वा) त्वाम् (मघवन्) धनवन् (भोजम्) पालकम् (आहुः) कथयन्ति विद्वांसः (शिशीहि) अ० २०।३७।८। तीक्ष्णीकुरु। सचेतसं कुरु (मा) माम् (शिशयम्) वलिमलितनिभ्यः कयन्। उ० ४।९९। शश प्लुतगतौ-कयन्, अकारस्य इकारः। उद्योगिनम् (त्वा) (शृणोमि) (अप्नस्वती) कर्मवती (मम) (धीः) प्रज्ञा (अस्तु) (शक्र) हे शक्तिमन् (वसुविदम्) धनस्य लम्भकम् (भगम्) ऐश्वर्यम् (इन्द्र) हे परमैश्वर्यवन् पुरुष (आ) समन्तात् (भर) धर (नः) अस्मभ्यम् ॥
इस भाष्य को एडिट करें