अथर्ववेद - काण्ड 20/ सूक्त 89/ मन्त्र 8
प्र यम॒न्तर्वृ॑षस॒वासो॒ अग्म॑न्ती॒व्राः सोमा॑ बहु॒लान्ता॑स॒ इन्द्र॑म्। नाह॑ दा॒मानं॑ म॒घवा॒ नि यं॑स॒न्नि सु॑न्व॒ते व॑हति॒ भूरि॑ वा॒मम् ॥
स्वर सहित पद पाठप्र । यम् । अ॒न्त: । वृ॒ष॒ऽस॒वास॑: । अज्म॑न् । ती॒व्रा: । सोमा॑: । ब॒हु॒लऽअ॑न्तास: । इन्द्र॑म् ॥ न । अह॑ । दा॒मान॑म् । म॒घऽवा॑ । नि । यं॒स॒त् । नि । सु॒न्व॒ते । व॒ह॒ति॒ । भूरि॑ । वा॒मम् ॥८९.८॥
स्वर रहित मन्त्र
प्र यमन्तर्वृषसवासो अग्मन्तीव्राः सोमा बहुलान्तास इन्द्रम्। नाह दामानं मघवा नि यंसन्नि सुन्वते वहति भूरि वामम् ॥
स्वर रहित पद पाठप्र । यम् । अन्त: । वृषऽसवास: । अज्मन् । तीव्रा: । सोमा: । बहुलऽअन्तास: । इन्द्रम् ॥ न । अह । दामानम् । मघऽवा । नि । यंसत् । नि । सुन्वते । वहति । भूरि । वामम् ॥८९.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 89; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(प्र) प्रकर्षेण (यम्) (अन्तः) मध्ये। हृदये (वृषसवासः) वृषभ्यो बलवद्भ्यः सवाः ऐश्वर्याणि सकाशात् ते तथाभूताः (अग्मन्) प्राप्तवन्तः (तीव्राः) तीक्ष्णाः (सोमाः) तत्त्वरसाः (बहुलान्तासः) बहुलं बहुज्ञानम् अन्ते सिद्धान्ते येषां ते (इन्द्रम्) महाप्रतापिनं पुरुषम् (न) निषेधे (अह) एव (दामानम्) ददातेः-मनिन्। दानम् (मघवा) धनवान् (नि) (यंसत्) यमु उपरमे-लेट्। उपरतं निरुद्धं कुर्यात् (नि) नित्यम् (सुन्वते) तत्त्वं निष्पादयते पुरुषाय (वहति) प्रापयति (भूरि) प्रभूतम् (वामम्) वननीयं धनम् ॥
इस भाष्य को एडिट करें