Loading...
अथर्ववेद > काण्ड 20 > सूक्त 89

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 89/ मन्त्र 5
    सूक्त - कृष्णः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-८९

    धनं॒ न स्प॒न्द्रं ब॑हु॒लं यो अ॑स्मै ती॒व्रान्त्सोमाँ॑ आसु॒नोति॒ प्रय॑स्वान्। तस्मै॒ शत्रू॑न्त्सु॒तुका॑न्प्रा॒तरह्नो॒ नि स्वष्ट्रा॑न्यु॒वति॒ हन्ति॑ वृ॒त्रम् ॥

    स्वर सहित पद पाठ

    धन॑म् । न । स्प॒न्द्रम् । ब॒हु॒लम् । य: । अ॒स्मै॒ । ती॒व्रान् । सोमा॑न् । आ॒ऽसु॒नोति॑ । प्रय॑स्वान् ॥ तस्मै॑ । शत्रू॑न् । सु॒ऽतुका॑न् । प्रा॒त: । अह्न॑: । नि । सु॒ऽअष्ट्रा॑न् । यु॒वति॑ । हन्ति॑ । वृ॒त्रम् ॥८९.५॥


    स्वर रहित मन्त्र

    धनं न स्पन्द्रं बहुलं यो अस्मै तीव्रान्त्सोमाँ आसुनोति प्रयस्वान्। तस्मै शत्रून्त्सुतुकान्प्रातरह्नो नि स्वष्ट्रान्युवति हन्ति वृत्रम् ॥

    स्वर रहित पद पाठ

    धनम् । न । स्पन्द्रम् । बहुलम् । य: । अस्मै । तीव्रान् । सोमान् । आऽसुनोति । प्रयस्वान् ॥ तस्मै । शत्रून् । सुऽतुकान् । प्रात: । अह्न: । नि । सुऽअष्ट्रान् । युवति । हन्ति । वृत्रम् ॥८९.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 89; मन्त्र » 5

    टिप्पणीः - −(धनम्) (न) यथा (स्पन्द्रम्) स्फायितञ्चिवञ्चि०। उ० २।१३। स्पदि किञ्चिच्चलने गतौ च-रक्। स्पन्दशीलम्। शीघ्रं प्रापणीयम् (बहुलम्) प्रभूतम् (यः) पुरुषः (अस्मै) वीराय (तीव्रान्) (सोमान्) तत्त्वरसान् (आसुनोति) निष्पादयति। संस्करोति (प्रयस्वान्) अन्नवान्-निघ० २।७। (तस्मै) पुरुषाय (शत्रून्) (सुतुकान्) सृवृभूशुषिमुषिभ्यः कक्। उ० ३।४१। तु गतिवृद्धिहिंसासु-कक्। बहुहिंसकान् (प्रातः) प्रभातकाले यथा (अह्नः) दिनस्य (नि) नितराम् (स्वष्ट्रान्) अमिचिमिशसिभ्यः क्त्रः। उ० ४।१६४। अशू व्याप्तौ-क्त्र, टाप्। सुष्ठु अष्टास्ताडन्यो येषां तान्। तीक्ष्णायुधान् (युवति) पृथक् करोति (हन्ति) गच्छति-निघ० २।१४। प्राप्नोति (वृत्रम्) धनम्-निघ० २।१० ॥

    इस भाष्य को एडिट करें
    Top