अथर्ववेद - काण्ड 20/ सूक्त 89/ मन्त्र 7
आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रमु॒ग्रो यः शम्बः॑ पुरुहूत॒ तेन॑। अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र कृ॒धी धियं॑ जरि॒त्रे वाज॑रत्नाम् ॥
स्वर सहित पद पाठआ॒रात् । शत्रू॑न् । अप॑ । बा॒ध॒स्व॒ । दू॒रम् । उ॒ग्र: । य: । शम्ब॑: । पु॒रु॒ऽहू॒त॒ । तेन॑ ॥ अ॒स्मै इति॑ । धे॒हि॒ । यव॑ऽमत् । गोऽम॑त् । इ॒न्द्र॒ । कृ॒धि । धिय॑म् । ज॒रि॒त्रे । वाज॑ऽरत्नाम् ॥८९.७॥
स्वर रहित मन्त्र
आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन। अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥
स्वर रहित पद पाठआरात् । शत्रून् । अप । बाधस्व । दूरम् । उग्र: । य: । शम्ब: । पुरुऽहूत । तेन ॥ अस्मै इति । धेहि । यवऽमत् । गोऽमत् । इन्द्र । कृधि । धियम् । जरित्रे । वाजऽरत्नाम् ॥८९.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 89; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(आरात्) दूरात् (शत्रुम्) (अप बाधस्व) अपगमय (दूरम्) (उग्रः) प्रचण्डः (यः) (शम्बः) अ० ९।२।६। शम्ब इति वज्रनाम, शमयतेर्वा शाततेर्वा-निरु० ।२४। वज्रः (पुरुहूत) हे बहुविधाहूत (तेन) वज्रेण (अस्मे) अस्मभ्यम् (धेहि) देहि (यवमत्) अन्नयुक्तम् (गोमत्) गोभिर्विद्याभिर्धेनुभिश्च युक्तं धनम् (इन्द्र) हे महाप्रतापिन् वीर (कृधि) कुरु (धियम्) प्रज्ञाम् (जरित्रे) स्तोत्रे (वाजरत्नाम्) वाजैर्बलैः सुवर्णादिरत्नैश्च युक्ताम् ॥
इस भाष्य को एडिट करें