अथर्ववेद - काण्ड 20/ सूक्त 89/ मन्त्र 4
त्वां जना॑ ममस॒त्येष्वि॑न्द्र सन्तस्था॒ना वि ह्व॑यन्ते समी॒के। अत्रा॒ युजं॑ कृणुते॒ यो ह॒विष्मा॑न्नासुन्वता स॒ख्यं व॑ष्टि॒ शूरः॑ ॥
स्वर सहित पद पाठत्वाम् । जना॑: । म॒म॒ऽस॒त्येषु॑ । इ॒न्द्र॒ । स॒म्ऽत॒स्था॒ना: । वि । ह्व॒य॒न्ते॒ । स॒म्ऽई॒के ॥ अत्र॑ । युज॑म् । कृ॒णु॒ते॒ । य: । ह॒विष्मा॑न् । न । असु॑न्वत । स॒ख्यम् । व॒ष्टि॒ । शूर॑: ॥८९.४॥
स्वर रहित मन्त्र
त्वां जना ममसत्येष्विन्द्र सन्तस्थाना वि ह्वयन्ते समीके। अत्रा युजं कृणुते यो हविष्मान्नासुन्वता सख्यं वष्टि शूरः ॥
स्वर रहित पद पाठत्वाम् । जना: । ममऽसत्येषु । इन्द्र । सम्ऽतस्थाना: । वि । ह्वयन्ते । सम्ऽईके ॥ अत्र । युजम् । कृणुते । य: । हविष्मान् । न । असुन्वत । सख्यम् । वष्टि । शूर: ॥८९.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 89; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - पदपाठ के (असुन्वत) पद में भूल दीखती है, ऋग्वेद का (असुन्वता) पदपाठ संहिता के अनुकूल है, उसीके अनुसार हमने अर्थ किया है ॥ ४−(त्वाम्) (जनाः) (ममसत्येषु) ममप्रयोजनं सत्यम्-इति ब्रुवाणा योद्धारः सन्ति यत्र। ममसत्यं संग्रामनाम-निघ० २।१७। सङ्ग्रामेषु (इन्द्र) हे परमैश्वर्यवन् पुरुष (सन्तस्थानाः) तिष्ठतेः-कानच्। सम्यक् तिष्ठन्तः (वि) विविधम् (ह्वयन्ते) आह्वयन्ति (समीके) अलीकादयश्च। उ० ४।२। सम्+इण् गतौ-ईकन्। धातुलोपः। सङ्गमे। संग्रामे-निघ० २।१७। (अत्र) अस्मिन् विषये (युजम्) सखायम् (कृणुते) कुरुते (यः) पुरुषः (हविष्मान्) भक्तिमान् (न) निषेधे (असुन्वत) असुन्वता-ऋग्वेदपदपाठो यथा। तत्त्वरसं निष्पादयता (सख्यम्) सखित्वम् (वष्टि) कामयते (शूरः) निर्भयः ॥
इस भाष्य को एडिट करें