Loading...
अथर्ववेद > काण्ड 3 > सूक्त 10

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 10/ मन्त्र 11
    सूक्त - अथर्वा देवता - देवगणः छन्दः - अनुष्टुप् सूक्तम् - रायस्पोषप्राप्ति सूक्त

    इड॑या॒ जुह्व॑तो व॒यं दे॒वान्घृ॒तव॑ता यजे। गृ॒हानलु॑भ्यतो व॒यं सं॑ विशे॒मोप॒ गोम॑तः ॥

    स्वर सहित पद पाठ

    इड॑या । जुह्व॑त: । व॒यम् । दे॒वान् । घृ॒तऽव॑ता । य॒जे॒ । गृ॒हान् । अलु॑भ्यत: । व॒यम् । सम् । वि॒शे॒म॒ । उप । गोऽम॑त: ॥१०.११॥


    स्वर रहित मन्त्र

    इडया जुह्वतो वयं देवान्घृतवता यजे। गृहानलुभ्यतो वयं सं विशेमोप गोमतः ॥

    स्वर रहित पद पाठ

    इडया । जुह्वत: । वयम् । देवान् । घृतऽवता । यजे । गृहान् । अलुभ्यत: । वयम् । सम् । विशेम । उप । गोऽमत: ॥१०.११॥

    अथर्ववेद - काण्ड » 3; सूक्त » 10; मन्त्र » 11

    टिप्पणीः - ११−(इडया)। म० ६। स्तुत्यया प्राप्तव्यया वा प्रकृत्या। (जुह्वतः)। हु दानादानादनेषु-शतृ। शसि रूपम्। होमम् आत्मसमर्पणं कुर्वतः। (वयम्)। पुरुषाः (देवान्)। विजिगीषून् व्यवहारकुशलान् वा पुरुषान्। (घृतवता)। दीप्तिमता सारयुक्तेन वा, कर्मणा-इति शेषः। (यजे)। तिङां तिङो भवन्ति। वा० पा० ७।१।३९। इत्येकवचनं बहुवचने। यजामहे। पूजयामः। (गृहान्)। गृह ग्रहणे-क। गेहानि। (अलुभ्यतः)। लुभ गार्ध्ये=आकाङ्क्षाणाम् विमोहने च-शतृ, दिवादित्वात् श्यन्। शसि रूपम्। तृष्णारहितान् सर्वमनोरथयुक्तान्। (संविशेम)। सुखेन निवसेम। (उप)। उपेत्य। आगत्य। (गोमतः)। भूम्नि प्रशंसायां च मतुम्। बहुभिः प्रशस्ताभिर्गोभिर्युक्तान् ॥

    इस भाष्य को एडिट करें
    Top