अथर्ववेद - काण्ड 3/ सूक्त 10/ मन्त्र 13
सूक्त - अथर्वा
देवता - प्रजापतिः
छन्दः - अनुष्टुप्
सूक्तम् - रायस्पोषप्राप्ति सूक्त
इन्द्र॑पुत्रे॒ सोम॑पुत्रे दुहि॒तासि॑ प्र॒जाप॑तेः। कामा॑न॒स्माकं॑ पूरय॒ प्रति॑ गृह्णाहि नो ह॒विः ॥
स्वर सहित पद पाठइन्द्र॑ऽपुत्रे । सोम॑ऽपुत्रे । दु॒हि॒ता । अ॒सि॒ । प्र॒जाऽप॑ते: । कामा॑न् । अ॒स्माक॑म् । पू॒र॒य॒ । प्रति॑ । गृ॒ह्णा॒हि॒ । न॒: । ह॒वि: ॥१०.१३॥
स्वर रहित मन्त्र
इन्द्रपुत्रे सोमपुत्रे दुहितासि प्रजापतेः। कामानस्माकं पूरय प्रति गृह्णाहि नो हविः ॥
स्वर रहित पद पाठइन्द्रऽपुत्रे । सोमऽपुत्रे । दुहिता । असि । प्रजाऽपते: । कामान् । अस्माकम् । पूरय । प्रति । गृह्णाहि । न: । हवि: ॥१०.१३॥
अथर्ववेद - काण्ड » 3; सूक्त » 10; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(इन्द्रपुत्रे)। इन्द्रवत्पुत्रो यस्यास्तादृशि। हे सूर्यवत्पुत्रयुक्ते। (सोमपुत्रे)। हे चन्द्रवत्पुत्रयुक्ते प्रकृते ! (दुहिता)। नप्तृनेष्टृत्वष्टृ०। उ० २।९५। इति दुह प्रपूरणे-तृच्। दुहिता दुर्हिता दूरे हिता दोग्धेर्वा-निरु० ३।४। पिता दुहितुर्गर्भं दधाति पर्जन्यः पृथिव्याः-निरु० ४।२१। अत्र पृथिव्येव दुहितृशब्देनोक्ता, सा हि द्युलोकात् ‘दूरे निहिता’ अथवा सा हि द्युलोकं “दोग्धीति” दुहिता-इति देवराजयज्वा तट्टीकायाम्। दोग्धि कार्याणि प्रपूरयतीति सा। कार्याणां प्रपूरयित्री। (असि)। भवसि। (प्रजापतेः)। प्रजानां मनुष्यादीनां रक्षकस्य परमेश्वरस्य। (कामान्)। मनोरथान्। (अस्माकम्)। (पूरय)। समर्धय। (प्रति)। (गृह्णाहि)। प्रतिगृहाण। स्वीकुरु। (नः)। अस्माकम्। (हविः)। आत्मदानम्। भक्तिम् ॥
इस भाष्य को एडिट करें