अथर्ववेद - काण्ड 3/ सूक्त 10/ मन्त्र 9
सूक्त - अथर्वा
देवता - ऋतवः
छन्दः - अनुष्टुप्
सूक्तम् - रायस्पोषप्राप्ति सूक्त
ऋ॒तून्य॑ज ऋतु॒पती॑नार्त॒वानु॒त हा॑य॒नान्। समाः॑ संवत्स॒रान्मासा॑न्भू॒तस्य॒ पत॑ये यजे ॥
स्वर सहित पद पाठऋ॒तून् । य॒जे॒ । ऋ॒तु॒ऽपती॑न् । आ॒र्त॒वान् । उ॒त । हा॒य॒नान् । समा॑: । स॒म्ऽव॒त्स॒रान् । मासा॑न् । भू॒तस्य॑ । पत॑ये । य॒जे॒ ॥१०.९॥
स्वर रहित मन्त्र
ऋतून्यज ऋतुपतीनार्तवानुत हायनान्। समाः संवत्सरान्मासान्भूतस्य पतये यजे ॥
स्वर रहित पद पाठऋतून् । यजे । ऋतुऽपतीन् । आर्तवान् । उत । हायनान् । समा: । सम्ऽवत्सरान् । मासान् । भूतस्य । पतये । यजे ॥१०.९॥
अथर्ववेद - काण्ड » 3; सूक्त » 10; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(ऋतून्)। अर्त्तेश्च तुः। उ० १।७२। इति ऋ गतौ-तु, स च कित् वसन्तादिकालाम्। (यजे)। यज देपपूजादानसङ्गतिकरणेषु। अहं समर्पयामि। (ऋतुपतीन्)। ऋतूनाम् अधिष्ठातॄन्, सूर्यचन्द्रवायुपृथिव्यादीन् देवान्। (आर्तवान्)। ऋतोरण्। पा० ५।१।१०५। इति ऋतु-अण्, तदस्य प्राप्तमित्यर्थे। ऋतूद्भवान्। ऋतुजातान्। (उत)। अपि च। (हायनान्)। हश्च व्रीहिकालयोः। पा० ३।१।१४८। इति ओहाक् त्यागे, ओहाङ् गतौ च-ण्युट्। आतो चुक् चिण्कृतोः। पा० ७।३।३३। इति युक्। दातव्यान् प्राप्तव्यान् व्रीह्यादीन् भोज्यपदार्थान्। (समाः)। अ० २।६।१। अनुकूलाः क्रियाः। (संवत्सरान्)। म० २। सम्यग् वासयितॄन्। द्वादशमासात्मकान् कालान्। (मासान्)। मस परिमाणे-घञ्। शुक्लकृष्णपक्षद्वयात्मकान् कालान्। (भूतस्य)। भू सत्तायाम्-क्त। सत्तां प्राप्तस्य चराचरात्मकस्य जगतः। (पतये)। तादर्थ्ये चतुर्थी। पालकस्य। स्वामिने ॥
इस भाष्य को एडिट करें