अथर्ववेद - काण्ड 3/ सूक्त 10/ मन्त्र 1
सूक्त - अथर्वा
देवता - धेनुः
छन्दः - अनुष्टुप्
सूक्तम् - रायस्पोषप्राप्ति सूक्त
प्र॑थ॒मा ह॒ व्यु॑वास॒ सा धे॒नुर॑भवद्य॒मे। सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म् ॥
स्वर सहित पद पाठप्र॒थ॒मा । ह॒ । वि । उ॒वा॒स॒ । सा । धे॒नु: । अ॒भ॒व॒त् । य॒मे । सा । न॒: । पय॑स्वती । दु॒हा॒म् । उत्त॑राम्ऽउत्तराम् । समा॑म् ॥१०.१॥
स्वर रहित मन्त्र
प्रथमा ह व्युवास सा धेनुरभवद्यमे। सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥
स्वर रहित पद पाठप्रथमा । ह । वि । उवास । सा । धेनु: । अभवत् । यमे । सा । न: । पयस्वती । दुहाम् । उत्तराम्ऽउत्तराम् । समाम् ॥१०.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 10; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(प्रथमा)। प्रथेरमच् उ० ५।६८। इति प्रथ ख्यातौ-अमच्। प्रख्याता। प्रधाना। आद्या। (ह)। खलु। (व्युवास)। वस अच्छादने, विपूर्वको वस तेजसि, दीप्तौ-लिट्। दिदीपे। (सा)। षो नाशने-ड। स्यति दुःखानीति सः, ईश्वरः। विष्णुः। स्त्रियां टाप्। सा। ईश्वरी। लक्ष्मीः। प्रकृतिरित्यर्थः। यद्वा, सर्वनामैव। प्रसिद्धा इत्यर्थः। (धेनुः)। धेट इच्च। उ० ३।३४। इति धेट् पाने नु। यद्वा, धि, धारणे, तर्पणे च-नु। धेनुर्धयतेर्वा धिनोतेर्वा। निरु० ११।४२। दोग्ध्री। तर्पयित्री। (अभवत्)। आसीत्। (यमे)। नियमे। (सा)। पूर्वोक्ता। (नः)। अस्मान्। (पयस्वती)। दुग्धवती। सारवती। (दुहाम्)। दुह प्रपूरणे-लोट्। स्वरितेत्त्वाद् आत्मनेपदम्। अकथितं च। पा० १।४।५१। इति द्विकर्मकता। यथा, गां दोग्धिं पयः। दुग्धाम्। प्रपूरयतु। (उत्तरामुत्तराम्)। उद्+तॄ अप्। टाप्। नित्यवीप्सयोः। पा० ८।१।४। इति द्विर्वचनम्। अतिशयेनोत्कृष्टाम्। (समाम्)। षम वैकृत्ये-अच् अकथितं कर्मकत्वम्। पूर्णाम्। समक्रियाम्। समानाम्। साध्वीं शक्तिम् ॥
इस भाष्य को एडिट करें