अथर्ववेद - काण्ड 3/ सूक्त 10/ मन्त्र 12
सूक्त - अथर्वा
देवता - इन्द्रः, देवगणः
छन्दः - त्रिष्टुप्
सूक्तम् - रायस्पोषप्राप्ति सूक्त
ए॑काष्ट॒का तप॑सा त॒प्यमा॑ना ज॒जान॒ गर्भं॑ महि॒मान॒मिन्द्र॑म्। तेन॑ दे॒वा व्य॑षहन्त॒ शत्रू॑न्ह॒न्ता दस्यू॑नामभव॒च्छची॒पतिः॑ ॥
स्वर सहित पद पाठए॒क॒ऽअ॒ष्ट॒का । तप॑सा । त॒प्यमा॑ना । ज॒जान॑ । गर्भ॑म् । म॒हि॒मान॑म् । इन्द्र॑म् । तेन॑ । दे॒वा: । वि । अ॒स॒ह॒न्त॒ । शत्रू॑न् । ह॒न्ता । दस्यू॑नाम् । अ॒भ॒व॒त् । शची॒ऽपति॑: ॥१०.१२॥
स्वर रहित मन्त्र
एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम्। तेन देवा व्यषहन्त शत्रून्हन्ता दस्यूनामभवच्छचीपतिः ॥
स्वर रहित पद पाठएकऽअष्टका । तपसा । तप्यमाना । जजान । गर्भम् । महिमानम् । इन्द्रम् । तेन । देवा: । वि । असहन्त । शत्रून् । हन्ता । दस्यूनाम् । अभवत् । शचीऽपति: ॥१०.१२॥
अथर्ववेद - काण्ड » 3; सूक्त » 10; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(एकाष्टका)। म० ८। (तपसा)। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति तप दाहैश्ययोः-असुन्। तप्यते धनी, ईश्वरो भवतीत्यर्थः। ऐश्वर्यवता ब्रह्मणा। (तप्यमाना)। तप ऐश्वर्ये-शानच्। दिवादिः, आत्मनेपदी। ईशाना समर्था सती। (जजान)। जनयामास। प्राकाशयत् (गर्भम्)। अर्त्तिगॄभ्यां भन्। उ० ३।१५२। इति गॄ शब्दे-भन्। गर्भो गृभेर्गृणात्यर्थे गिरत्यनर्थानिति वा यदा हि स्त्री गुणान् गृह्णाति गुणाश्चास्या गृह्यतेऽथ गर्भो भवति-निरु० १०।२३। गर्भं गर्भभूतं यद्वा गरणीयं स्तुत्यं वन्दनीयम्-इति सायणः। (महिमानम्)। हृभृधृसृस्तॄशॄभ्य इमनिच्। उ० ४।१४८। इति मह पूजायाम्-इमनिच्। पूजनीयम्। (इन्द्रम्) ऐश्वर्यवन्तं जीवम्। (तेन)। इन्द्रेण सह। (देवाः)। द्योतनात्मकाश्चक्षुरादीन्द्रियाणि-इति महीधरो यजु० ४०।४। चक्षुरादीनीन्द्रियाणि वा-तत्रैव दयानन्दभाष्ये। (वि)। विविधम्। विशेषेण। (असहन्त)। अभ्यभवन्। (शत्रून्)। शातयितॄन्। घातकान्। (हन्ता)। नाशकः। (दस्यूनाम्)। अ० २।१४।५। उपक्षपयितॄणाम्। चौराणाम्। (अभवत्)। आसीत्। (शचीपतिः)। सर्वधातुभ्य इन् उ० ४।११८। इति शच वक्तायां वाचि-इन्। कृदिकारादक्तिनः। वा० पा० ४।१।४५। इति ङीष्। शची=वाक्-निघ० १।११। कर्म-२।१। प्रज्ञा-३।९। शचीनां वाचां कर्मणां प्रज्ञानां वा पालकः यथार्थवक्ता यथार्थकर्मा यथार्थप्रज्ञो वा ॥
इस भाष्य को एडिट करें