Loading...
अथर्ववेद > काण्ड 3 > सूक्त 10

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 10/ मन्त्र 6
    सूक्त - अथर्वा देवता - जातवेदाः, पशुसमूहः छन्दः - अनुष्टुप् सूक्तम् - रायस्पोषप्राप्ति सूक्त

    इडा॑यास्प॒दं घृ॒तव॑त्सरीसृ॒पं जात॑वेदः॒ प्रति॑ ह॒व्या गृ॑भाय। ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पा॒स्तेषां॑ सप्ता॒नां मयि॒ रन्ति॑रस्तु ॥

    स्वर सहित पद पाठ

    इडा॑या: । प॒दम् । घृतऽव॑त् । स॒री॒सृ॒पम् । जात॑ऽवेद: । प्रति॑ । ह॒व्या । गृ॒भा॒य॒ । ये । ग्रा॒म्या: । प॒शव॑: । वि॒श्वऽरू॑पा: । तेषा॑म् । स॒प्ता॒नाम् । मयि॑ । रन्ति॑: । अ॒स्तु॒ ॥१०.६॥


    स्वर रहित मन्त्र

    इडायास्पदं घृतवत्सरीसृपं जातवेदः प्रति हव्या गृभाय। ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि रन्तिरस्तु ॥

    स्वर रहित पद पाठ

    इडाया: । पदम् । घृतऽवत् । सरीसृपम् । जातऽवेद: । प्रति । हव्या । गृभाय । ये । ग्राम्या: । पशव: । विश्वऽरूपा: । तेषाम् । सप्तानाम् । मयि । रन्ति: । अस्तु ॥१०.६॥

    अथर्ववेद - काण्ड » 3; सूक्त » 10; मन्त्र » 6

    टिप्पणीः - ६−(इडायाः)। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति इल स्वप्नगतिक्षेपणेषु-क, लस्य डः। यद्वा। ईड स्तुतौ-धङ्, ईकारस्य ह्रस्वत्वम्। टाप्। इला, पृथिवी-निघ० १।१। वाक्। ३।११। अन्नम्-२।७। गौः-२।११। प्राप्तव्यायाः स्तुत्यायाः प्रकृतेः। (पदम्)। पद स्थैर्ये गतौ च-पचाद्यच्। स्थानम्। गतिः। पादचिह्नम्। (घृतवत्)। सारोपेतम्। (सरीसृपम्)। सृपेर्यङ्लुगन्तात्-पचाद्यच्। अत्यर्थं सर्पत् गच्छत्। (जातवेदः)। अ० १।७।२। हे जातप्रज्ञान ! (प्रति)। प्रथ ख्यातौ-डति। व्याप्य। (हव्या)। हु दानादानादनेषु-यत्। शेर्लोपः। हव्यानि। दातव्यानि ग्राह्याणि वा वस्तूनि। दैवान्नानि। (गृभाय)। छन्दसि शायजपि। पा० ३।१।८४। इति ग्रहेर्लोटि श्नः शायच्। तत्रैव वार्त्तिकं सिद्धान्तकौमुद्याम्। हृग्रहोर्भश्छन्दसि। इति हस्य भः। गृहाण। (ये)। (ग्राम्याः)। अ० २।३४।४। ग्रामीणाः। (पशवः)। व्याख्यातम्-अ० २।२६।१। व्यक्तवचनाश्चाव्यक्तवचनाश्च मनुष्यगवादिप्राणिनः। (विश्वरूपाः)। नानाकाराः। (तेषाम्)। (सप्तानाम्)। अ० १।१।१। षप समवाये-क्त। समवेतानां परस्परसंबद्धानां संयुक्तानाम्। (मयि)। गृहस्वामिनि। (रन्तिः)। रमेः क्तिन्, अनुनासिकलोपाभावः। रतिः। रमणम्। प्रीतिः। (अस्तु)। भवतु ॥

    इस भाष्य को एडिट करें
    Top