अथर्ववेद - काण्ड 4/ सूक्त 14/ मन्त्र 1
सूक्त - भृगुः
देवता - आज्यम्, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्ज्योति प्राप्ति सूक्त
अ॒जो ह्यग्नेरज॑निष्ट॒ शोका॒त्सो अ॑पश्यज्जनि॒तार॒मग्रे॑। तेन॑ दे॒वा दे॒वता॒मग्र॑ आय॒न्तेन॒ रोहा॑न्रुरुहु॒र्मेध्या॑सः ॥
स्वर सहित पद पाठअ॒ज: । हि । अ॒ग्ने: । अज॑निष्ट । शोका॑त् । स: । अ॒प॒श्य॒त् । ज॒नि॒तार॑म् । अग्ने॑ । तेन॑ । दे॒वा: । दे॒वता॑म् । अग्रे॑ । आ॒य॒न् । तेन॑ । रोहा॑न् । रु॒रु॒हु॒: । मेध्या॑स: ॥१४.१॥
स्वर रहित मन्त्र
अजो ह्यग्नेरजनिष्ट शोकात्सो अपश्यज्जनितारमग्रे। तेन देवा देवतामग्र आयन्तेन रोहान्रुरुहुर्मेध्यासः ॥
स्वर रहित पद पाठअज: । हि । अग्ने: । अजनिष्ट । शोकात् । स: । अपश्यत् । जनितारम् । अग्ने । तेन । देवा: । देवताम् । अग्रे । आयन् । तेन । रोहान् । रुरुहु: । मेध्यास: ॥१४.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 14; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(अजः) न जायते यः। नञ्+जन-ड। यद्वा, अज गतिक्षेपणयोः, अच्। अजन्मा। गतिशीलः। जीवात्मा-इति शब्दस्तोममहानिधिः (हि) निश्चयेन (अग्नेः) अगि गतौ-नि। सर्वव्यापकात् परमेश्वरात् (अजनिष्ट) प्रादुरभूत् (शोकात्) शुच शौचे, शोके च-घञ्। दीप्यमानात्-इति महीधरः य० १३।५१। (सः) अजः। जीवात्मा (अपश्यत्) दृष्टवान् (जनितारम्) जनयितारं स्वोत्पादकं प्रजापतिम् अग्निम् (अग्रे) सृष्टेः प्राग् वर्तमानम् (तेन) जनयितृज्ञानेन (देवाः) विद्वांसः। महात्मानः (देवताम्) तस्य भावस्त्वतलौ-पा० ६।१।१५९। इति तल्। देवभावम्। दिव्यगुणताम् (अग्रे) अस्मत्पूर्वकाले वर्त्तमानाः (आयन्) इण् गतौ-लङ्। प्राप्नुवन् (रोहान्) रुह-घञ्। आ रोहणीयान् सुखलोकान् (रुरुहुः) आरूढवन्तः (मेध्यासः) उगवादिभ्यो यत्। पा० ५।१।२। इति मेधा-यत्। असुगागमः। मेधायै हिताः। मेध्याः। मेधाविनः। पवित्राः पुरुषाः ॥
इस भाष्य को एडिट करें