Loading...
अथर्ववेद > काण्ड 4 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 14/ मन्त्र 7
    सूक्त - भृगुः देवता - आज्यम्, अग्निः छन्दः - प्रस्तारपङ्क्तिः सूक्तम् - स्वर्ज्योति प्राप्ति सूक्त

    पञ्चौ॑दनं प॒ञ्चभि॑र॒ङ्गुलि॑भि॒र्दर्व्योद्ध॑र पञ्च॒धैतमो॑द॒नम्। प्राच्यां॑ दि॒शि शिरो॑ अ॒जस्य॑ धेहि॒ दक्षि॑णायां दि॒शि दक्षि॑णं धेहि पा॒र्श्वम् ॥

    स्वर सहित पद पाठ

    पञ्च॑ऽओदनम् । प॒ञ्चऽभि॑: । अ॒ङ्गुलि॑ऽभि: । दर्व्या॑ । उत् । ह॒र॒ । प॒ञ्च॒ऽधा । ए॒तम् । ओ॒द॒नम् । प्राच्या॑म् । दि॒शि । शिर॑: । अ॒जस्य॑ । धे॒हि॒ । दक्षि॑णायाम् । दि॒शि । दक्षि॑णम् । धे॒हि॒ । पा॒र्श्वम् ॥१४.७॥


    स्वर रहित मन्त्र

    पञ्चौदनं पञ्चभिरङ्गुलिभिर्दर्व्योद्धर पञ्चधैतमोदनम्। प्राच्यां दिशि शिरो अजस्य धेहि दक्षिणायां दिशि दक्षिणं धेहि पार्श्वम् ॥

    स्वर रहित पद पाठ

    पञ्चऽओदनम् । पञ्चऽभि: । अङ्गुलिऽभि: । दर्व्या । उत् । हर । पञ्चऽधा । एतम् । ओदनम् । प्राच्याम् । दिशि । शिर: । अजस्य । धेहि । दक्षिणायाम् । दिशि । दक्षिणम् । धेहि । पार्श्वम् ॥१४.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 14; मन्त्र » 7

    टिप्पणीः - ७−(पञ्चौदनम्) कनिन् युवृषितक्षि०। उ–० १।१५६। इति पचि व्यक्तीकरणे विस्तारे च-कनिन्। उन्देर्नलोपश्च। उ० २।७६। इति उन्दी क्लेदने-युच्। ओदनो मेघः-निघ० १।१०। ओदनमुदकदानं मेघम्-निरु० ६।३४। पञ्चभिर्भूतैः ओदनः सेचन यस्य तम् (पञ्चभिः) विस्तृताभिः (अङ्गुलिभिः) ऋतन्यञ्जि०। उ० ४।२। इति अङ्ग पदे=चेष्टायाम्-उलिप्रत्ययः। अङ्गुलयः कस्मादग्रगामिन्यो भवन्तीति वाग्रगालिन्यो भवन्तीति वाग्रकारिण्यो भवन्तीति वाङ्कना भवन्तीति वाञ्चना भवन्तीति वापि वाभ्यञ्जनादेव स्युः। निरु० ३।८। चेष्टाभिः (दर्व्या) वृदॄभ्यां विन् उ० ४।५३। इति दॄ विदारणे विन्, ङीप्। विदारणशक्त्या। वियोगशक्त्या (उद् हर) उद्धृत्य स्थापय (पञ्चधा) पञ्चप्रकारेण विभज्य (एतम्) आ-इण्-क्त। आगतं दृश्यमानं वा (ओदनम्) व्याख्यातम्। सेचनसमर्थं यद्वा, अन्नवद् वृद्धिकरम् आत्मानम् (प्राच्याम्) अ० ३।२६।१। स्वस्थानात् पूर्वस्याम्। स्वाभिमुखीभूतायाम् (दिशि) दिशायाम् (शिरः) अ० २।२५।२। मस्तकम् (अजस्य) म० १। अजनशीलस्य जीवात्मनः (धेहि) धर (दक्षिणायाम्) दक्षिणस्याम् (पार्श्वम्) स्पृशेः श्वण्शुनौ पृ च। उ० ५।२७। इति स्पृश संपर्के-श्वण्, धातोः पृ इत्यादेशः। कक्षयोरधोभागम् ॥

    इस भाष्य को एडिट करें
    Top