Loading...
अथर्ववेद > काण्ड 4 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 14/ मन्त्र 8
    सूक्त - भृगुः देवता - आज्यम्, अग्निः छन्दः - पञ्चपदातिशक्वरी सूक्तम् - स्वर्ज्योति प्राप्ति सूक्त

    प्र॒तीच्यां॑ दि॒शि भ॒सद॑मस्य धे॒ह्युत्त॑रस्यां दि॒श्युत्त॑रं धेहि पा॒र्श्वम्। ऊ॒र्ध्वायां॑ दि॒श्यजस्यानू॑कं धेहि दि॒शि ध्रु॒वायां॑ धेहि पाज॒स्य॑म॒न्तरि॑क्षे मध्य॒तो मध्य॑मस्य ॥

    स्वर सहित पद पाठ

    प्र॒तीच्या॑म् । दि॒शि । भ॒सद॑म् । अ॒स्य॒ । धे॒हि॒ । उत्त॑रस्याम् । दि॒शि । उत्त॑रम् । धे॒हि॒ । पा॒र्श्वम् । ऊ॒र्ध्वाया॑म् । दि॒शि । अ॒जस्य॑ । अनू॑कम् । धे॒हि॒ । दि॒शि । ध्रु॒वाया॑म् । धे॒हि॒ । पा॒ज॒स्य᳡म् । अ॒न्तरि॑क्षे । म॒ध्य॒त: । मध्य॑म् । अ॒स्य॒ ॥१४.८॥


    स्वर रहित मन्त्र

    प्रतीच्यां दिशि भसदमस्य धेह्युत्तरस्यां दिश्युत्तरं धेहि पार्श्वम्। ऊर्ध्वायां दिश्यजस्यानूकं धेहि दिशि ध्रुवायां धेहि पाजस्यमन्तरिक्षे मध्यतो मध्यमस्य ॥

    स्वर रहित पद पाठ

    प्रतीच्याम् । दिशि । भसदम् । अस्य । धेहि । उत्तरस्याम् । दिशि । उत्तरम् । धेहि । पार्श्वम् । ऊर्ध्वायाम् । दिशि । अजस्य । अनूकम् । धेहि । दिशि । ध्रुवायाम् । धेहि । पाजस्यम् । अन्तरिक्षे । मध्यत: । मध्यम् । अस्य ॥१४.८॥

    अथर्ववेद - काण्ड » 4; सूक्त » 14; मन्त्र » 8

    टिप्पणीः - ८−(प्रतीच्याम्) अ० ३।२६।३। पश्चिमायाम् पश्चात् स्थितायाम् (दिशि) दिशायाम् (भसदम्) शॄदृभसोऽदिः। उ० १।१३०। इति भस भर्त्सनदीप्त्योः-अदि। कटिप्रदेशं जघनं वा (अस्य) अजस्य (धेहि) स्थापय (उत्तरस्याम्) उदीच्याम्। वामभागवर्तमानायाम् (उत्तरम्) वामभागस्थम् (पार्श्वम्) म० ७ (ऊर्ध्वायाम्) अ० ३।२६।६। उपरि वर्तमानायाम् [अजस्य] म० १। जीवात्मनः (अनूकम्) अनु+उच् समवाये घञर्थे कः। न्यङ्क्वादीनां च। पा० ७।३।५३। इति कुत्वम्। पृष्ठवंशम् (ध्रुवायाम्) अ० २।२६।४। स्थिरायाम्। अधस्तात् (पाजस्यम्) पाज इति बलनाम-निघ० २।९। पाजसे हितम्। बलकरमङ्गम्। उदरम् (अन्तरिक्षे) आकाशे (मध्यतः) मध्यभागे (मध्यम्) शरीरमध्यभागम् (अस्य) निर्दिष्टस्य ॥

    इस भाष्य को एडिट करें
    Top