Loading...
अथर्ववेद > काण्ड 4 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 14/ मन्त्र 3
    सूक्त - भृगुः देवता - आज्यम्, अग्निः छन्दः - प्रस्तारपङ्क्तिः सूक्तम् - स्वर्ज्योति प्राप्ति सूक्त

    पृ॒ष्ठात्पृ॑थि॒व्या अ॒हम॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम्। दि॒वो नाक॑स्य पृ॒ष्ठात्स्व॑१र्ज्योति॑रगाम॒हम् ॥

    स्वर सहित पद पाठ

    पृ॒ष्ठात्‌ । पृ॒थि॒व्या: । अ॒हम् । अ॒न्तरि॑क्षम् । आ । अ॒रु॒ह॒म् । अ॒न्तरि॑क्षात् । दिव॑म् । आ । अ॒रु॒ह॒म् । दि॒व: । नाक॑स्य । पृ॒ष्ठात् । स्व᳡: । ज्योति॑: । अ॒गा॒म् । अ॒हम् ॥१३.३॥


    स्वर रहित मन्त्र

    पृष्ठात्पृथिव्या अहमन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम्। दिवो नाकस्य पृष्ठात्स्व१र्ज्योतिरगामहम् ॥

    स्वर रहित पद पाठ

    पृष्ठात्‌ । पृथिव्या: । अहम् । अन्तरिक्षम् । आ । अरुहम् । अन्तरिक्षात् । दिवम् । आ । अरुहम् । दिव: । नाकस्य । पृष्ठात् । स्व: । ज्योति: । अगाम् । अहम् ॥१३.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 14; मन्त्र » 3

    टिप्पणीः - ३−(पृष्ठात्) तलात् (पृथिव्याः) भूमेः (अहम्) विद्वान् योगी जनः (अन्तरिक्षम्) आकाशम् (आ अरुहम्) रुह-लुङ्। आरूढवान् (अन्तरिक्षात्) आकाशात् (दिवम्) प्रकाशमानं सूर्यम् (दिवः) सूर्यस्य (नाकस्य) सुखनिमित्तस्य अन्धकारनाशकत्वात् (पृष्ठात्) उपरिभागात् (स्वः) सुखस्वरूपम् (ज्योतिः) ज्योतिःस्वरूपं परमात्मानम् (अगम्) इण् गतौ-लुङ्। आगमम्। प्राप्तवान् ॥

    इस भाष्य को एडिट करें
    Top