Loading...
अथर्ववेद > काण्ड 5 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 11/ मन्त्र 2
    सूक्त - अथर्वा देवता - वरुणः छन्दः - त्रिष्टुप् सूक्तम् - संपत्कर्म सूक्त

    न कामे॑न॒ पुन॑र्मघो भवामि॒ सं च॑क्षे॒ कं पृश्नि॑मे॒तामुपा॑जे। केन॒ नु त्वम॑थर्व॒न्काव्ये॑न॒ केन॑ जा॒तेना॑सि जा॒तवे॑दाः ॥

    स्वर सहित पद पाठ

    न । कामे॑न । पुन॑:ऽमघ: । भ॒वा॒मि॒ । सम् । च॒क्षे॒ । कम् । पृश्नि॑म् । ए॒ताम् । उप॑ । अ॒जे॒ । केन॑ । नु । त्वम् । अ॒थ॒र्व॒न् । काव्ये॑न । केन॑ । जा॒तेन॑ । अ॒सि॒ । जा॒तऽवे॑दा: ॥११.२॥


    स्वर रहित मन्त्र

    न कामेन पुनर्मघो भवामि सं चक्षे कं पृश्निमेतामुपाजे। केन नु त्वमथर्वन्काव्येन केन जातेनासि जातवेदाः ॥

    स्वर रहित पद पाठ

    न । कामेन । पुन:ऽमघ: । भवामि । सम् । चक्षे । कम् । पृश्निम् । एताम् । उप । अजे । केन । नु । त्वम् । अथर्वन् । काव्येन । केन । जातेन । असि । जातऽवेदा: ॥११.२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 11; मन्त्र » 2

    टिप्पणीः - २−(न) सम्प्रत्यर्थे−निरु० ७।३१। (कामेन) शुभकामनया (पुनर्मघः) म० १। पुनर् अवधारणे। अवश्यं धनदाता (भवामि) (सम्) सम्यक् (चक्षे) चक्षिङ् दर्शने कथने च। पश्यामि (कम्) सुखेन (पृश्निम्) म० १। वेदविद्याम् (एताम्) सुप्रसिद्धाम् (उप) आदरेण (अजे) अज गतिक्षेपणयोः। अजामि। प्राप्नोमि (केन) अन्येष्वपि दृश्यते। पा० ३।२।१०१। इति कमेः क्रमेर्वा−ड। यद्वा कं सुखम्−अर्शआद्यच्। कः कमनो वा क्रमणो वा−सुखो वा−निरु० १–०।२२। कमनीयेन, व्यापकेन, सुखप्रदेन वा प्रजापतिना (नु) निश्चयेन (त्वम्) (अर्थवन्) अ० ४।१।७। हे निश्चलस्वभाव पुरुष (काव्येन) अ० ४।१।६। कवृ स्तुतौ−ण्यत्। स्तुत्येन ब्रह्मणा (केन) (जातेन) प्रसिद्धेन सह (असि) (जातवेदाः) जातधनः। जातप्रज्ञः ॥

    इस भाष्य को एडिट करें
    Top