Loading...
अथर्ववेद > काण्ड 5 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 11/ मन्त्र 6
    सूक्त - अथर्वा देवता - वरुणः छन्दः - पञ्चपदातिशक्वरी सूक्तम् - संपत्कर्म सूक्त

    एकं॒ रज॑स ए॒ना प॒रो अ॒न्यदस्त्ये॒ना प॒र एके॑न दु॒र्णशं॑ चिद॒र्वाक्। तत्ते॑ वि॒द्वान्व॑रुण॒ प्र ब्र॑वीम्य॒धोव॑चसः प॒णयो॑ भवन्तु नी॒चैर्दा॒सा उप॑ सर्पन्तु॒ भूमि॑म् ॥

    स्वर सहित पद पाठ

    एक॑म् । रज॑स: । ए॒ना । प॒र: । अ॒न्यत् । अस्ति॑ । ए॒ना । प॒र: । एके॑न । दु॒:ऽनश॑म् । चि॒त् । अ॒वाक् । तत् । ते॒ । वि॒द्वान् । व॒रु॒ण॒ । प्र । ब्र॒वी॒मि॒ । अ॒ध:ऽव॑चस: । प॒णय॑: । भ॒व॒न्तु॒ । नी॒चै: । दा॒सा: । उप॑ । स॒र्प॒न्तु॒ । भूमि॑म् ॥११.६॥


    स्वर रहित मन्त्र

    एकं रजस एना परो अन्यदस्त्येना पर एकेन दुर्णशं चिदर्वाक्। तत्ते विद्वान्वरुण प्र ब्रवीम्यधोवचसः पणयो भवन्तु नीचैर्दासा उप सर्पन्तु भूमिम् ॥

    स्वर रहित पद पाठ

    एकम् । रजस: । एना । पर: । अन्यत् । अस्ति । एना । पर: । एकेन । दु:ऽनशम् । चित् । अवाक् । तत् । ते । विद्वान् । वरुण । प्र । ब्रवीमि । अध:ऽवचस: । पणय: । भवन्तु । नीचै: । दासा: । उप । सर्पन्तु । भूमिम् ॥११.६॥

    अथर्ववेद - काण्ड » 5; सूक्त » 11; मन्त्र » 6

    टिप्पणीः - ६−(एकम्) अद्वितीयं ब्रह्म (रजसः) लोकात् (एना) अस्मात् (परः) दूरदेशे (अन्यत्) (अस्ति) (एना) अनेन (परः) दूरदेशे (एकेन) अद्वितीयेन ब्रह्मणा (दुर्णशम्) नशत् व्याप्तिकर्मा−निघ० २।१८। दुष्प्राप्यम् (चित्) अपि (अर्वाक्) अवरदेशभवम्। पश्चाद्वर्तमानम् (तत्) ब्रह्मज्ञानम् (ते) तुभ्यम् (विद्वान्) प्राप्तविद्यः (वरुण) श्रेष्ठ (प्र) प्रकर्षेण (ब्रवीमि) कथयामि (अधोवचसः) अधोगतानि वचांसि येषां ते। असत्यवचनाः (पणयः) कुव्यवहारिणः (भवन्तु) (नीचैः) अधोदेशे (दासाः) शूद्राः। अविद्वांसः (उप) हीने (सर्पन्तु) सर्पणेन गच्छन्तु (भूमिम्) भूतलम् ॥

    इस भाष्य को एडिट करें
    Top