अथर्ववेद - काण्ड 5/ सूक्त 11/ मन्त्र 9
आ ते॑ स्तो॒त्राण्युद्य॑तानि यन्त्व॒न्तर्विश्वा॑सु॒ मानु॑षीषु दि॒क्षु। दे॒हि नु मे॒ यन्मे॒ अद॑त्तो॒ असि॒ युज्यो॑ मे स॒प्तप॑दः॒ सखा॑सि ॥
स्वर सहित पद पाठआ । ते॒ । स्तो॒त्राणि॑ । उत्ऽय॑तानि । य॒न्तु॒ । अ॒न्त: । विश्वा॑सु । मानु॑षीषु। दि॒क्षु। दे॒हि। नु । मे॒ । यत् । मे॒ । अद॑त्त: । असि॑ । युज्य॑ । मे॒ । स॒प्तऽप॑द: । सखा॑। अ॒सि॒ ॥११.९॥
स्वर रहित मन्त्र
आ ते स्तोत्राण्युद्यतानि यन्त्वन्तर्विश्वासु मानुषीषु दिक्षु। देहि नु मे यन्मे अदत्तो असि युज्यो मे सप्तपदः सखासि ॥
स्वर रहित पद पाठआ । ते । स्तोत्राणि । उत्ऽयतानि । यन्तु । अन्त: । विश्वासु । मानुषीषु। दिक्षु। देहि। नु । मे । यत् । मे । अदत्त: । असि । युज्य । मे । सप्तऽपद: । सखा। असि ॥११.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 11; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(आ यन्तु) आगच्छन्तु (ते) तव (स्तोत्राणि) स्तुत्यानि कर्माणि (उद्यतानि) उद्+यम−क्त। ऊर्ध्वीकृतानि। प्रस्तुतानि (अन्तः) मध्ये (विश्वासु) सर्वासु (मानुषीषु) म० ८। मनुष्यसम्बन्धिनीषु (दिक्षु) दिशासु (देहि) प्रयच्छ (नु) अवश्यम् (मे) मह्यम् (यत्) दानम् (मे) मह्यम् (अदत्तः) नास्ति दत्तं दानं यस्य सः। अदत्तवान् (असि) (युज्यः) युज−क्यप्। योज्यः। अनुरूपः (मे) मम (सप्तपदः) षप समवाये−क्त। सप्तं समवेतं प्राप्तं पदं स्थानं येन सः। प्राप्ताधिकारः। सुदृढः (सखा) मित्रम् (असि) भवसि ॥
इस भाष्य को एडिट करें