अथर्ववेद - काण्ड 5/ सूक्त 11/ मन्त्र 4
न त्वद॒न्यः क॒वित॑रो॒ न मे॒धया॒ धीर॑तरो वरुण स्वधावन्। त्वं ता विश्वा॒ भुव॑नानि वेत्थ॒ स चि॒न्नु त्वज्जनो॑ मा॒यी बि॑भाय ॥
स्वर सहित पद पाठन । त्वत् । अ॒न्य: । क॒विऽत॑र: । न । मे॒धया॑ । धीर॑ऽतर: । व॒रु॒ण॒ । स्व॒धा॒ऽव॒न् । त्वम् । ता । विश्वा॑ । भुव॑नानि । वे॒त्थ॒ । स: । चि॒त् । नु । त्वत् । जन॑: । मा॒यी। बि॒भा॒य॒ ॥११.४॥
स्वर रहित मन्त्र
न त्वदन्यः कवितरो न मेधया धीरतरो वरुण स्वधावन्। त्वं ता विश्वा भुवनानि वेत्थ स चिन्नु त्वज्जनो मायी बिभाय ॥
स्वर रहित पद पाठन । त्वत् । अन्य: । कविऽतर: । न । मेधया । धीरऽतर: । वरुण । स्वधाऽवन् । त्वम् । ता । विश्वा । भुवनानि । वेत्थ । स: । चित् । नु । त्वत् । जन: । मायी। बिभाय ॥११.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 11; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(न) निषेधे (त्वत्) त्वत्तः (अन्यः) भिन्नः। मूर्खः (कवितरः) सूक्ष्मदर्शितरः (न) (मेधया) प्रज्ञया (धीरतरः) बुद्धिमत्तरः (वरुण) हे वरणीय पुरुष (स्वधावन्) अ० २।२९।७। स्व+डुधाञ् धारणपोषणयोः−क्विप्। हे आत्मधारणयुक्त। स्वाधीन। अन्नवन् (त्वम्) (ता) तानि (विश्वा) सर्वाणि (भुवनानि) लोकान् (वेत्थ) वेत्सि। जानासि (सः) (चित्) अपि (नु) निश्चयेन (त्वत्) त्वत्तः (जनः) मनुष्यः (मायी) छली (बिभाय) भयं प्राप ॥
इस भाष्य को एडिट करें