अथर्ववेद - काण्ड 5/ सूक्त 11/ मन्त्र 1
सूक्त - अथर्वा
देवता - वरुणः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - संपत्कर्म सूक्त
क॒थं म॒हे असु॑रायाब्रवीरि॒ह क॒थं पि॒त्रे हर॑ये त्वे॒षनृ॑म्णः। पृश्निं॑ वरुण॒ दक्षि॑णां ददा॒वान्पुन॑र्मघ॒ त्वं मन॑साचिकित्सीः ॥
स्वर सहित पद पाठक॒थम् । म॒हे । असु॑राय । अ॒ब्र॒वी॒: । इ॒ह । क॒थम् । पि॒त्रे । हर॑ये । त्वे॒षऽनृ॑म्ण: ।पृश्नि॑म् । व॒रु॒ण॒ । दक्षि॑णाम् ।द॒दा॒वान् । पुन॑:ऽमघ । त्वम् । मन॑सा । अ॒चि॒कि॒त्सी॒: ॥११.१॥
स्वर रहित मन्त्र
कथं महे असुरायाब्रवीरिह कथं पित्रे हरये त्वेषनृम्णः। पृश्निं वरुण दक्षिणां ददावान्पुनर्मघ त्वं मनसाचिकित्सीः ॥
स्वर रहित पद पाठकथम् । महे । असुराय । अब्रवी: । इह । कथम् । पित्रे । हरये । त्वेषऽनृम्ण: ।पृश्निम् । वरुण । दक्षिणाम् ।ददावान् । पुन:ऽमघ । त्वम् । मनसा । अचिकित्सी: ॥११.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 11; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(कथम्) केन प्रकारेण (महे) महते (असुराय) अ० १।१०।१। प्राणदात्रे। प्रज्ञावते परमेश्वराय। तस्य प्राप्तय इत्यर्थः (अब्रवीः) त्वं कथितवान् (इह) अत्र संसारे (कथम्) (पित्रे) पालकाय (हरये) दुःखनाशकाय। परमेश्वरप्राप्तये (त्वेषनृम्णः) अ० ५।२।१। तेजोबलस्त्वम् (पृश्निम्) अ० २।१।१। स्पृश स्पर्शे−नि। स्पृशति योगिनः। वेदविद्याम्। पृश्निः=वेदाः−इति शब्दकल्पद्रुमः (वरुण) हे वरणीय विद्वन् (दक्षिणाम्) अ० ५।७।१। प्रतिष्ठाम् (ददावान्) ददातेः−क्वसु। छान्दसं रूपम्। ददिवान्। दप्तवान् त्वम् (पुनर्मघ) मघमिति धननामधेयं संहतेर्दानकर्मणः−निरु० १।७। पुनर्भूयो भूयो मघं धनं यस्मात् स पुर्नमघः तत्सम्बुद्धौ। हे पुनः पुनर्धनदातः (त्वम्) [मनसा] हृदयेन [अचिकित्सीः] कित रोगापनयने−लुङ्। त्वं चिकित्सां रोगप्रतिकारं कृतवानसि ॥
इस भाष्य को एडिट करें