Loading...
अथर्ववेद > काण्ड 5 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 11/ मन्त्र 3
    सूक्त - अथर्वा देवता - वरुणः छन्दः - पङ्क्तिः सूक्तम् - संपत्कर्म सूक्त

    स॒त्यम॒हं ग॑भी॒रः काव्ये॑न स॒त्यं जा॒तेना॑स्मि जा॒तवे॑दाः। न मे॑ दा॒सो नार्यो॑ महि॒त्वा व्र॒तं मी॑माय॒ यद॒हं ध॑रि॒ष्ये ॥

    स्वर सहित पद पाठ

    स॒त्यम् । अ॒हम् ।ग॒भी॒र: । काव्ये॑न । स॒त्यम् । जा॒तेन॑ । अ॒स्मि॒ । जा॒तऽवे॑दा: । न । मे॒ । दा॒स: । न । आर्य॑: । म॒हि॒ऽत्वा । व्र॒तम् । मी॒मा॒य॒ । यत् । अ॒हम् । ध॒रि॒ष्ये ॥११.३॥


    स्वर रहित मन्त्र

    सत्यमहं गभीरः काव्येन सत्यं जातेनास्मि जातवेदाः। न मे दासो नार्यो महित्वा व्रतं मीमाय यदहं धरिष्ये ॥

    स्वर रहित पद पाठ

    सत्यम् । अहम् ।गभीर: । काव्येन । सत्यम् । जातेन । अस्मि । जातऽवेदा: । न । मे । दास: । न । आर्य: । महिऽत्वा । व्रतम् । मीमाय । यत् । अहम् । धरिष्ये ॥११.३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 11; मन्त्र » 3

    टिप्पणीः - ३−(सत्यम्) यथार्थम् (अहम्) जीवः (गभीरः) गभीरगम्भीरौ। उ० ४।३५। इति गम्लृ−ईरन्, मस्य भः। शान्तः (काव्येन) म० १। स्तुत्येन ब्रह्मणा (सत्यम्) (जातेन) प्रसिद्धेन (अस्मि) (जातवेदाः) जातधनः। जातप्रज्ञः (न) निषेधे (मे) मम (दासः) अ० ४।३२।१। शूद्रः (न आर्यः) अ० ४।३२।१। न प्राप्तुं योग्यः। अनार्यः। अविद्वान्। (महित्वा) अ० ४।२।२। महत्त्वेन (व्रतम्) वरणीयं कर्म (मीमाय) मीञ् हिंसायाम्−लिटि छान्दसं रूपम्। हिंसितवान् (यत्) व्रतम् (अहम्) (धरिष्ये) धरिष्यामि ॥

    इस भाष्य को एडिट करें
    Top