अथर्ववेद - काण्ड 5/ सूक्त 23/ मन्त्र 8
ह॒तो येवा॑षः॒ क्रिमी॑णां ह॒तो न॑दनि॒मोत। सर्वा॒न्नि म॑ष्म॒षाक॑रं दृ॒षदा॒ खल्वाँ॑ इव ॥
स्वर सहित पद पाठह॒त: । येवा॑ष: । क्रिमी॑णाम् । ह॒त: । न॒द॒नि॒मा । उ॒त । सर्वा॑न् । नि । म॒ष्म॒षा । अ॒क॒र॒म् । दृ॒षदा॑ । खल्वा॑न्ऽइव ॥२३.८॥
स्वर रहित मन्त्र
हतो येवाषः क्रिमीणां हतो नदनिमोत। सर्वान्नि मष्मषाकरं दृषदा खल्वाँ इव ॥
स्वर रहित पद पाठहत: । येवाष: । क्रिमीणाम् । हत: । नदनिमा । उत । सर्वान् । नि । मष्मषा । अकरम् । दृषदा । खल्वान्ऽइव ॥२३.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 23; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(हतः) नाशितः (येवाषः) एव+अषः−म० ७। शीघ्रगामी (क्रिमीणाम्) कीटानां मध्ये (नदनिमा) नदनं करोति नदनयिता। तत्करोति तदाचष्टे। वा० पा० ३।१।२६। इति नदन−णिच्। हृभृघृसृ०। उ० ४।१४८। इति इमनिच्, णिलोपः। नादकर्ता (उत) अपिच (सर्वान्) सकलान् क्रिमीन् (मष्मषा) मष वधे−सम्पदादित्वात् क्विप्। आबाधे च। पा० ८।१।१०। इति द्वित्वम्। अत्यन्तहननेन (नि अकरम्) अहं निराकृतवान् नाशितवान् (दृषदा) अ० २।३१।१। शिलया (खल्वान्) अ० २।३१।१। चणकान् (इव) यथा ॥
इस भाष्य को एडिट करें