अथर्ववेद - काण्ड 5/ सूक्त 23/ मन्त्र 9
त्रि॑शी॒र्षाणं॑ त्रिक॒कुदं॒ क्रिमिं॑ सा॒रङ्ग॒मर्जु॑नम्। शृ॒णाम्य॑स्य पृ॒ष्टीरपि॑ वृश्चामि॒ यच्छिरः॑ ॥
स्वर सहित पद पाठत्रि॒ऽशी॒र्षाण॑म् । त्रि॒ऽक॒कुद॑म् । क्रिमि॑म् । सा॒रङ्ग॑म् । अर्जु॑नम् । शृ॒णामि॑ । अ॒स्य॒ । पृ॒ष्टी: । अपि॑ । वृ॒श्चा॒मि॒ । यत् । शिर॑: ॥२३.९॥
स्वर रहित मन्त्र
त्रिशीर्षाणं त्रिककुदं क्रिमिं सारङ्गमर्जुनम्। शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः ॥
स्वर रहित पद पाठत्रिऽशीर्षाणम् । त्रिऽककुदम् । क्रिमिम् । सारङ्गम् । अर्जुनम् । शृणामि । अस्य । पृष्टी: । अपि । वृश्चामि । यत् । शिर: ॥२३.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 23; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(त्रिशीर्षाणम्) श्रयतेः स्वाङ्गे शिरः किच्च। उ० ४।१९४। इति श्रिञ् सेवायाम्−असुन्। शीर्षंश्छन्दसि। पा० ६।१।६०। इति शिरः शब्दस्य शीर्षन्। त्रिषु ऊर्ध्वाधोमध्यस्थानेषु शिर आश्रयो यस्य तम् (त्रिककुदम्) त्रि+क+कु+दम्। आतोऽनुपसर्गे कः। पा० ३।२।३। इति त्रिककु+दाप् छेदने क। त्रयाणां कानां कायिकवाचिकमानसिकसुखानां कुं भूमिं दाति छिनत्ति यस्तम्। अन्यद् यथा−अ० २।३२।२। (क्रिमिम्) कीटम् (सारङ्गम्) सृ गतौ−अङ्गच्, वृद्धिश्च। सरणशीलम्। शबलवर्णम् (अर्जुनम्) संचयशीलम्। श्वेतवर्णम्। (शृणामि) हन्मि (पृष्टीः) पार्श्वस्थानि (अपि) (वृश्चामि) छिनद्मि (यत्) (शिरः) मस्तकम् ॥
इस भाष्य को एडिट करें