अथर्ववेद - काण्ड 5/ सूक्त 23/ मन्त्र 4
सरू॑पौ॒ द्वौ विरू॑पौ॒ द्वौ कृ॒ष्णौ द्वौ रोहि॑तौ॒ द्वौ। ब॒भ्रुश्च॑ ब॒भ्रुक॑र्णश्च॒ गृध्रः॒ कोक॑श्च॒ ते ह॒ताः ॥
स्वर सहित पद पाठसऽरू॑पौ । द्वौ । विऽरू॑पौ । द्वौ । कृ॒ष्णौ । द्वौ । रोहि॑तौ । द्वौ । ब॒भ्रु: । च॒ । ब॒भ्रुऽक॑र्ण: । च॒ । गृध्र॑ । कोक॑: । च॒ । ते । ह॒ता: ॥२३.४॥
स्वर रहित मन्त्र
सरूपौ द्वौ विरूपौ द्वौ कृष्णौ द्वौ रोहितौ द्वौ। बभ्रुश्च बभ्रुकर्णश्च गृध्रः कोकश्च ते हताः ॥
स्वर रहित पद पाठसऽरूपौ । द्वौ । विऽरूपौ । द्वौ । कृष्णौ । द्वौ । रोहितौ । द्वौ । बभ्रु: । च । बभ्रुऽकर्ण: । च । गृध्र । कोक: । च । ते । हता: ॥२३.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 23; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(सरूपौ) समानाकारौ (द्वौ) क्रिमी (विरूपौ) विरुद्धरूपौ (द्वौ) (कृष्णौ) कृषेर्वर्णे। उ० ३।४। इति कृष विलेखने−नक्। श्यामवर्णौ (द्वौ) (रोहितौ) रक्तवर्णौ (बभ्रुः) पिङ्गलवर्णः (बभ्रुकर्णः) पिङ्गलश्रोत्रः (गृध्रः) सुसूधाञ्गृधिभ्यः क्रन्। उ० २।२४। इति गृधु अभिकाङ्क्षायाम्−क्रन्। गृध्र आदित्यो भवति गृध्यतेः स्थानकर्मणः... गृध्राणीन्द्रियाणि गृध्यतेर्ज्ञानकर्मणः−निरु० १४।१३। गृधाकारः क्रिमिः (कोकः) कुक आदाने−पचाद्यच्। वृकाकारः क्रिमिः (च) (ते) क्रिमयः (हताः) नाशिताः ॥
इस भाष्य को एडिट करें