Loading...
अथर्ववेद > काण्ड 5 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 23/ मन्त्र 10
    सूक्त - कण्वः देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - कृमिघ्न सूक्त

    अ॑त्रि॒वद्वः॑ क्रिमयो हन्मि कण्व॒वज्ज॑मदग्नि॒वत्। अ॒गस्त्य॑स्य॒ ब्रह्म॑णा॒ सं पि॑नष्म्य॒हं क्रिमी॑न् ॥

    स्वर सहित पद पाठ

    अ॒त्त्रि॒ऽवत् । व॒: । क्रि॒म॒य॒: । ह॒न्मि॒ । क॒ण्व॒ऽवत् । ज॒म॒द॒ग्नि॒ऽवत् । अ॒गस्त्य॑स्य । ब्रह्म॑णा । सम् । पि॒न॒ष्मि॒ । अ॒हम् । क्रिमी॑न् ॥२३.१०॥


    स्वर रहित मन्त्र

    अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्। अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥

    स्वर रहित पद पाठ

    अत्त्रिऽवत् । व: । क्रिमय: । हन्मि । कण्वऽवत् । जमदग्निऽवत् । अगस्त्यस्य । ब्रह्मणा । सम् । पिनष्मि । अहम् । क्रिमीन् ॥२३.१०॥

    अथर्ववेद - काण्ड » 5; सूक्त » 23; मन्त्र » 10

    टिप्पणीः - १०−व्याख्यातं यथा−अ० २।३२।३। (अत्त्रिवत्) दोषभक्षको गतिशीलो वा मुनिर्यथा (वः) युष्मान् (क्रिमयः) हे क्षुद्रजन्तवः (हन्मि) नाशयामि (कण्ववत्) स्तुत्यो मेधावी तथा (जमदग्निवत्) हुताशनः प्रज्वलितोऽग्निरिव तेजो येषां ते जमदग्नयः। तत्सदृशः पुरुषः (अगस्त्यस्य) अगस्य कुटिलगतेः पापस्य असने उत्पाटने समर्थस्य परमेश्वरस्य (ब्रह्मणा) वेदज्ञानेन (सम् पिनष्मि) संचूर्णयामि (अहम्) (क्रिमीन्) क्षुद्रजन्तून् ॥

    इस भाष्य को एडिट करें
    Top