Loading...
अथर्ववेद > काण्ड 5 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 23/ मन्त्र 6
    सूक्त - कण्वः देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - कृमिघ्न सूक्त

    उत्पु॒रस्ता॒त्सूर्य॑ एति वि॒श्वदृ॑ष्टो अदृष्ट॒हा। दृ॒ष्टांश्च॒ घ्नन्न॒दृष्टां॑श्च॒ सर्वां॑श्च प्रमृ॒णन्क्रिमी॑न् ॥

    स्वर सहित पद पाठ

    उत् । पु॒रस्ता॑त् । सूर्य॑: । ए॒ति॒ । वि॒श्वऽदृ॑ष्ट: । अ॒दृ॒ष्ट॒ऽहा । दृ॒ष्टान् । च॒ । घ्नन् । अ॒दृष्टा॑न् । च॒ । सर्वा॑न् । च॒ । प्र॒ऽमृ॒णन् । क्रिमी॑न् ॥२३.६॥


    स्वर रहित मन्त्र

    उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा। दृष्टांश्च घ्नन्नदृष्टांश्च सर्वांश्च प्रमृणन्क्रिमीन् ॥

    स्वर रहित पद पाठ

    उत् । पुरस्तात् । सूर्य: । एति । विश्वऽदृष्ट: । अदृष्टऽहा । दृष्टान् । च । घ्नन् । अदृष्टान् । च । सर्वान् । च । प्रऽमृणन् । क्रिमीन् ॥२३.६॥

    अथर्ववेद - काण्ड » 5; सूक्त » 23; मन्त्र » 6

    टिप्पणीः - ६−(उत् एति) उदितो भवति (पुरस्तात्) पूर्व−अस्ताति, पुर् आदेशः। अग्रतः। पूर्वस्यां दिशि (विश्वदृष्टः) सर्वैर्दृष्टः (अदृष्टहा) हन गतौ−क्विप्। अगोचरपदार्थेषु व्यापकः (दृष्टान्) गोचरान् (च) समुच्चये (घ्नन्) नाशयन् (अदृष्टान्) अगोचरान् (च) (सर्वान्) सकलान् (च) अवश्यम् (प्रमृणन्) प्रकर्षेण नाशयन् (क्रिमीन्) कीटान् ॥

    इस भाष्य को एडिट करें
    Top